________________
December - 2003
१०९
चर्कर्तु भर्ता वरमुक्तिलक्ष्म्या श्चञ्चच्छुभं भक्तजनस्य नित्यम् । चन्दद्गुणो२५ यो नमिनाथसार्वश्चन्द्रोपमक्षान्तिरसाम्बुधिस्सः ॥२४॥
छिनच्छलो नेमिजिनेश्वरस्सः, छिन्द्यात्तमां कर्ममलानि सद्यः । छेकाललोकाः स्तवनं यदीयं,
छिन्दन्त एनो रचयन्ति दिष्ट्या ॥२५॥ जयतु पार्श्वजिनस्स विधीयते, जनतया नतया च यदनम् । जलदकान्तिसमानशरीररुग्, जगति दीप्तयशा जयवानहो ! ॥२६॥
झषध्वजस्थाममहीध्रवज्रो, झरां२६ नयत्वाऽऽश्वऽशुभानि मेऽद्य । झट्यन्त एनांसि च यत्प्रसत्त्या, झगित्यथो वीरजिनेश्वरस्सः ॥२७||
इति श्रीमातृकाश्लोकमालायां चतुर्विंशतिजिनवर्णनो नाम प्रथमः
__ परिच्छेदः ॥१॥
२५. चन्दंत आह्लादयन्तो दीप्यमाना गुणा यस्य स तथा ।। २६. हानिम् । २७. झट्यन्ते विनश्यन्ते । २८. शीघ्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org '