SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९४ मनुरप्याह यज्ञार्थं पशवः सृष्टा स्वयमेव स्वयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ १॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥२॥ एष्वर्थेषु पशून् हिंसन्वेदतत्त्वार्थविद् द्विजः । आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ॥३॥ सर्वमेतदसमञ्जसम्, ‘मा हिंस्यात् सर्वभूतानि' इत्यस्यैव सर्वैरप्युद्घोषितत्वात् । मांसस्याऽपि हिंसामन्तरेण नोपपत्तिः, अतो मांसभक्षकोऽपि हिंसक एव । यत उक्तम् अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ १ ॥ तथा च नियुक्तस्तु यथान्यायं यो मांसं नाऽत्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥१॥ अनुसंधान-२६ या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥२॥ इति । मांसभक्षणस्वारसिकत्वेन यत्तैरुक्तम् न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ १ ॥ अस्य श्लोकस्य व्याख्यानं केचिदेवं कुर्वन्ति यज्ञे मांसभक्षणकरणेन, सौत्रामणियज्ञे मद्यपानकरणेन, ऋतुसमये धर्मपत्नीसमागमनेन दोषो नाऽस्ति, प्राणिनां प्रवृत्ति - रेवैषेति कृत्वा, तथाऽपि निवृत्तेर्महाफलवत्त्वम् । अयं भावः - यज्ञ - सौत्रामणियज्ञऋतुसमयातिरिक्ते सर्वत्राऽपि स्थले दोषः । केचित्त्वेवं व्याख्यान्ति यज्ञे उच्छिष्टमांसभक्षणेन, सौत्रामणियागे मद्यपानेन, ऋतुं विनाऽपि स्वस्त्रियं प्रति गमनेन दोषो नाऽस्ति तथाऽपि तन्निवृत्तेः Jain Education International For Private & Personal Use Only 7 www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy