________________
58
अनुसंधान-२५ (२३) श्रीअशोकपुष्पमञ्जरी मरन्दबिन्दशान्त
सर्वतो रजोरये सुरप्रमुक्तचंगगन्धबन्धस्तनरंगणे सभाङ्गणे वरात
पत्रसत्पवित्रचामरेन्दिरातिरङ्ग । श्रीमृगाधिनायका स नोपविष्टपुष्टवाणि
धर्ममर्मदेशनेन बोधिताङ्गशिष्टपृष्टदेशभासमानभावितानदेवदुन्दुभी
द्धनादपूज्यपादपार्श्वदेवनन्द ॥२३॥ अशोकपुष्पमञ्जरी ॥ (२४) नरपतिततिनिषेवितपादपीठाग्रसि
द्धार्थभूपालवंशाब्दिराकानिशानायकः, प्रणितभविकमहोदयमेदुरानन्दसंभोगभङ्गीभुजङ्गीभवद्भाविभूनायकः । मदनदहनघनोत्कलिकाकुलं मामकीनं मनः शुद्धसम्वेगरङ्गामृतासारतो, रचयतु शमरमारससुन्दरं वर्द्धमानो जिनो जायमानासमानोल्लसन्मङ्गलः ॥२४॥ उत्कलिका ॥
कर्तुः प्रशस्तिः । इत्येवं सर्वदेवा सुरनरबलिराजाधिराजैः सुजातिव्यक्तिच्छन्दोविशेषैरहमहमिकया नव्यनव्यैः सुकाव्यैः । नित्यं संस्तूयमाना दलितकलिमला नाभिराजाङ्गजाद्याः, श्रीवीरान्ता जिनेन्द्रा भुवनहितकृते माङ्गलक्याय सन्तु ॥२॥ स्रग्धरा ।।
इति प्रवर्द्धमानाक्षरविभिन्नजातिव्यक्ति छन्दादिशेषरचितं चतुर्विंशति
जिनस्तवनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org