________________
September-2003
55
(६)
(७)
(८)
सुरगिरौ सुमतेज्जिनि(न)मज्जने विदधिरे विवुधा नवनतनम् ॥५॥ द्रुतविलम्बित ॥ जगतीहितार्थरचनाभिनदितः, ससुरासुरेन्द्रमनुजेन्द्रवन्दितः । नमतां मतां जनमनोभिनन्दिनी वितनोतु ऋद्धिमरुणप्रभुप्रभुः ॥६।। नन्दिनी ।। सिंहोद्धता अपि जगज्जनताजयेन, मोहक़ुधा मदनलोभमदादयोऽमी । गर्जन्ति तावदतिरंगभरेण यावदन्तः सुपार्श्वसरभस्य न ते स्मरन्ति ॥६|| सिंहोद्धता ॥ हिमकरहिमनीरक्षीरडिण्डीरपिण्डप्रवरकिरणमालामालिनी यस्य मूर्तिः सुकृतदलकसारैनिर्मितेवा च भाति, प्रथयतु स सुखानि स्वामिचन्द्रप्रभो ! मे ॥८॥ मालिनी ॥ सुविधिजिनस्तनोतु मम मङ्गलानि नित्यं, मदनकरीन्द्रकुम्भतटणटनो ससिंहः । तरलन्तरैरपीक्षणसरैर्यदीयचेतः, सरसिरूहमनाग्न बिभिदे धुवाणिनीभिः ॥९॥ वाणिनी ॥ श्रेयोलक्ष्मी वितरतु स वः शीतलस्तीर्थनाथो, यस्मिन्गर्भे स्थितवति करस्पर्शमात्रेण मातुः । दाहोत्साहा जनकवपुषोऽगुः क्रियं(कियद्?) वा मृगेन्द्रैमन्दाक्रान्ता अपि किमु मृगा न म्रियन्ते क्षणेन ॥१०॥ मन्दाक्रान्ता । श्रीश्रेयांसो दिशतु मम महानन्दमन्दोदद्धि, वाणीं यस्यानुपममधुरिमोदारश्रृङ्गारसाराम् । पायं पायं मदनदहनसंहारिणः सच्चकोराः, सञ्जायन्तेऽमृतरसभरितां तां यथा चन्द्रलेखाम् ॥११॥ चन्द्रलेखा ॥
(९)
(१०)
(११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org