SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ____ 32 32 अनुसंधान-२५ परः - ४५एवं भवदभिमतं मतं विवेचयाम इति चेत् । तत्कि सामान्यलक्षणप्रश्नो वा विशेषणलक्षणप्रश्नो वा ? । न परः । को नामाऽपक्रियमव्यवहार सामान्यमाद्रियते ? । 'भाना एव हि भासन्ते संनिविष्टा यथा तथा' । इति । जातिः सामान्यम् । गोत्वं सर्वत्र । इयं कृष्णा गौरिति दोहनक्रियायां तस्यामेवाऽर्थक्रियाकारित्वम् । न तु सर्वजातौ । मैवम् । किं तत्र गवि स्वरूपसत्त्वं स्वीक्रियते न वा ? । अजातित्वेन खुरककुदः(द) सास्नालक्षणानडुहोऽपि दोहनप्रसक्तेः । स्वरूपसत्त्वाभावात् । स्वरूपपसत्त्वं चेत. तदेव सामान्यम् । तत्रैव सङ्ख्यापरिमाणादिविशेषा इति । निर्विशेष हि सामान्यं प्रागुक्तयुक्त्या सिद्धमेव, किं पिष्टपेषणम् ? । तत्र सामान्यतः प्रमाणलक्षणमुक्तम् । सम्प्रति विशेषतः प्रस्तुतमनुसन्धीयते ॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे । सार्वज्ञं ज्ञानं प्रथमं जानाति, ततः पश्यति । अस्मदादिज्ञानं प्रथमं पश्यति, ततो जानाति । आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चितः । । नैकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते ॥१॥ आगमप्रमाणं निषेधकं क्वापि विधायकम् । प्रत्यक्षं तु विधायि(य)कमेव। 'न निषेद्ध' कोऽर्थः ? । वैशेषिकमतमुद्दिश्य प्रत्यक्षमनुमानाधीनं चक्षुरादिप्रकाशकम् । ननु ग्राहकं पूर्वानुभूतं तदाकारतया तदिष्टं साध्यं साधयतीति । प्रमाणेतरसामान्य-स्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥१॥ इति । चार्वाका अपि प्रत्यक्ष(क्ष)योग्यार्थमात्रग्राह का गिरं सङ्गिरन्ते स्म।नास्त्यात्मा, प्रत्यक्षप्रमाणातिक्रान्तत्वादिति ।। _ 'अक्षं अक्षं प्रति प्रत्यक्ष'मित्यव्ययीभावान्नियतनपुंस्त्वं' स्यात् । अक्षशब्दादपि चेत्, न चैवं स्पर्शनादिप्रत्यक्षं नैतच्छब्दवाच्यं स्यादिति । अतः अक्षमिन्द्रियं, ततः प्रतिगतं प्रत्यक्षमिति सिद्धम् । तदिदं५१ प्रत्यक्षस्वरूपस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy