________________
September-2003
गोपालघट्यादौ सदोषवह्निमत्त्वज्ञानोत्पत्तिक्षणे । अप्रामाण्यं परत एव ॥ ज्ञसिक्षणे तु ज्ञानस्य प्रामाण्यं संवादकज्ञानतः स्वतः प्रादुर्भवति । ज्ञप्तिक्षणे तु बाधकज्ञानतोऽनासन्नदशायामप्रामाण्यमपि परत इति ॥
तदिदं विवादास्पदीभूतमदुष्टं सिद्धं प्रमाणस्वरूपम् । ततः उत्पद्य ज्ञानं किं गृह्णीयात् ? । यत्तावदुक्तं 'प्रमीयते वस्तुतत्त्वार्थोऽनेनेति, तत् सामान्यविशेषाद्यनेकात्मकं वस्तु । पूर्वापरपरिणामसाधारणं द्रव्यं सामान्यं, तदाश्रया विशेषाः । गुणपर्यायवद् द्रव्यम् । यथा- आत्मनि ज्ञानं सहभावी गुणः । यथाआत्मा द्रव्यम्, ज्ञानं गुणः । क्रमभावी पर्यायः । यथा- आत्मनि नरनारक तिर्यक्त्वादिः ।
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
क्व कदा केन ९किंरूपा दृष्टा मानेन केन वा ? ॥१॥
द्रव्यापेक्षया सर्वे भावा नित्याः । पर्यायापेक्षया सर्वेऽनित्याः । उत्पादव्ययध्रौव्यात्मकं सत् । तद्भावाव्ययं नित्यम् । आदीपमाव्योम नित्यानित्यम् । मानाधीना मेयसिद्धिः । प्रमेयं प्रमाणसिद्धमिति ॥
25
कथमिति परे गिरं सङ्गिरन्ते- अयुतसिद्धानामाधार्याधारभूताना' मिह' प्रत्ययहेतुः सम्बन्धः समवायः । यथा शिलातलशकलयुगलानुसन्धायकं तार्तीर्यके ( तार्तीयीक ? ) तया रालादिद्रव्यम् । तथेन्द्रियार्थज्ञानसम्बन्धी इह प्रत्ययो विशेष्यविशेषणभावात्मकः । इह भूतले घटोऽस्ति । इह भूतले घटो नास्ति । शुक्लरूपं कृष्णरूपशून्यम् । इह शुक्लरूपे कृष्णरूपं नास्ति । गृह्यते येन यद्भवस्तदभावस्तेन गृह्यते । तदपरे प्राहु:
इन्द्रियेण परिच्छिन्ने रूपादौ यदनन्तरम् । तद्रूपादिस्ततस्तस्य मनोज्ञानं प्रवर्तते ॥१॥
आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति ॥
शब्दार्थपरिज्ञानं च । वाच्यवाचकभावसम्बन्धाद् वाच्योऽर्थः । वाचक: शब्दः । स्वाभाविकसंकेतितशब्दग्रहणान्नियमितार्थस्यैव ग्रहणं किम् ? | पृथुबुघ्नोदराद्याकारवानर्थक्रियाकारि दासीशिरसि चेष्टते इति घटः । 'घट' इत्युक्ते तरङ्ग-शृङ्ग-भृङ्ग-भृङ्गारादिषु घट एवादीयते, न तु पटः । नात्र सम्बन्धाभावो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org