SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ September-2003 शमं शरीरे शतधा दधानः, शरण्यमेकं जिनमेव जानन् । शतक्रतोरप्यविकम्प्यचित्तः, शक्नोति शान्ताय पदाय गन्तुम् ॥१२२॥ षड्दृष्टिदृष्टान्तविदश्चतुर्थ-षष्टादिनिष्ठारसिकात्मवृत्तेः । षड्भेदजीवावननिष्ठितस्य षष्ठी यतेर्हस्तगतेव लेश्या ॥ १२३ ॥ > सत्यं समाधिः समता समर्थता, सहिष्णुता सत्त्वकला सकता सम्यक्त्वसङ्गः सरलत्वसभ्यते, सदा सतां सद्गतिसाक्षिणो गुणाः ॥ १२४॥ हर्म्याणि रम्याणि रमाश्च रामा, हर्म्यातिकाम्याभरणाभिरामाः । भवे भवे भाग्यभृतां भवेयुः सुदुर्लभः किन्तु जिनेन्द्रधर्मः ॥ १२५ ॥ हंसः सतां लसति सद्गुरुभानुबोध्ये योगाम्बुजे गृहि-यतिव्रजबीजकोशे । सम्यक्त्वनालजुषि शुद्धयमादिपत्रे, पुण्यामृतोपचितमानसगर्भजाते ॥१२६॥ लक्ष्यैकभाग् द्वादशभावनारसे लयं श्रयन् ध्यानचतुष्कपूरणे । लघुत्वमाज्ञाविचयादिचिन्तया लब्ध्वोद्धर्वलोकान्तमुपैति चेतनः ॥१२७॥ क्षमामृदुत्वार्जवसत्यसंयम त्यागास्तयोऽकिञ्चनता सशौचता । ब्रह्मेति धर्मो दशधा जिनोदितः स्याद् भूर्भुवः स्वःसुखसिद्धिदायकः ॥ १२८ ॥ मङ्गलं निरवधि स्थिरा महाश्रीः परं शरणमुत्तमं महः । सिद्धसेनहृदयाधिदैवतं निर्मलं जयति जैनशासनम् ॥१२९॥ इत्याचार्य श्रीसिद्धसेनोपज्ञं श्रीसिद्धमातृकाभिधं धर्म्मप्रकरणं समाप्तमिति शुभं भवतु ॥ श्रीरस्तु ॥ Jain Education International 17 For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy