SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ April-2003 41 तत्कुले बहुल श्रीके पक्षद्वितयनिर्मलः । श्रीमान् वृषभ इत्यासीत् सरसीव सितच्छि(च्छ)दः ॥१२॥ निर्वोढुं निखिलं भारं प्रभूष्णुर्जात्यगौरिव । तारणार्थं भवाम्भोधे-नृणां पोत इवाऽभवत् ॥१३॥ सद्राज्यादिगुणाधिक्यं तन्वता यशसान्वितः । विरेजे व्यापिना व्योम्नि किरणेनांशुमानिव ॥१४|| स्वरूपप्रतिमं शीलं शीलेन प्रतिमान् गुणान् । गुणप्रतिमपूज्यत्वं युग्मिराड् धृतवानसौ ॥१५।। भीमकान्तगुणेनासौ प्रीति-द्वेषकरोऽभवत् । मित्रार्योः पद्म-कुचयोर्भास्तापेनांशुमानिव ॥१६॥ मर्यादायाः प्रजास्तस्य न कदाप्यतिचक्रमुः । लोकत्कल्लोलकान्तस्य वेला इव नदीशितुः ॥१७॥ संपत्त्यर्थं नृणामेवा-ददे तेभ्योऽयमर्हणाम् । यतश्चिन्तामणिः पूजां दातुं गृह्णाति भूरि शम्(भूरिशः?) ॥१८॥ तस्यान्येऽलंकृतीभूताद्वयेनैवास्ति विभ्रमः । अलोभत्वेन कीर्त्या च श्यामीभूतारिवक्त्रया ॥१९॥ तस्याऽज्ञातस्वरूपस्याऽऽकारेण क्रिययाऽनिशम् । इच्छयैवाखिलप्राप्ति-र्देवस्येव श्रियः -- ॥२०॥ आत्मस्तुत्यन्यसंस्तुत्योर्न मुद्द्वेषौ स्वदानधीः । पूर्वपुण्यानुयायित्वादिवास्यासीन्मतिः सना ॥२१॥ निश्चयीभूतदुःप्राप-निःश्रेयससुखोऽपि सन् । विनैव वार्द्धकं धर्मे बभूव रुचिमानसौ ॥२२॥ सर्वसौख्यविधानेन शिक्षा[दा]नाच्च युग्मिनाम् । कल्पद्रुमाधिक: सोऽभूत् तेषां कल्पद्रुसंनिभाः (भः) ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520523
Book TitleAnusandhan 2003 04 SrNo 23
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy