________________
29
April-2003
कुटिलगतिकरं तं जगद् व्यस्मरं, मदनविषधरं निर्विषत्वं न यत् । त्वमसि यदि जिन ! स्वर्णकायस्तदा, मरकतमणिवत् कृष्णकायः कथम् ॥४०॥
(कुटिलगति) तृणवद्दिवं दिविषदो गणयन्तस्त्वदुपान्तमीश्वर ! मुदाऽधिवसन्ति । स्मितकेतकीकमपहाय वनं किं मधुपाः स्फुटं कुटजराजि भजन्ति ॥४१॥
(कुटज) न ते ध्यानध्वंसं चन्द्रिणी चन्द्रकान्तं, व्यधित नाथाङ्गहाराद्भुताऽप्युर्वशी। तथा वनी शुचिरुचिराम्रमञ्जरी, गुञ्जत्पिकोन्मदमधुप ! प्रभावती ॥४२॥
(चन्द्रिणी-उर्वशी-रुचिरा-प्रभावती) शमयति झगिति श्रमं समन्ताद् ध्वनरसलब्धविवृद्धिरीश ! गीस्ते । अभिमतफलदायिनी जनानां त्रिदिवलते ! वरदांशुपुष्पिताना ॥४३॥
(पुष्पिताग्रा) शमयत् परं गुरुतमांसि, कुवलयविबोधनोद्धराः । गाव इह ननु जडत्वभृतो भगवंस्तवाऽऽननसुधाकरोद्गताः ॥४४॥ (उद्गता) श्रीमत्रेमीश्वरेति स्तूयसे द्वैतशोभः, सोत्साहं छन्दसां यैर्मङ्गिभिस्त्वं शिवासूः । मत्यैः संप्राप्यते तैः क्लृप्तदुःकर्मपूर- प्रध्वंसैमॊक्षलक्ष्मीसङ्गसौख्यं महीयः
॥४५॥ (लक्ष्मी )
इति नानाछन्दोमयश्रीनेमिनाथस्तवनं समाप्तम् ॥
Co. अतुल कापडिया,
ए-९, जागृति फ्लेट्स, . पालडी, अमदावाद-३८०००७ (गुजरात)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org