________________
26
गन्धर्वैस्तव सुस्त (स्व) रैर्यशोगीतं पीतमवीतसुस्पृहैः । स्वामिन्निर्जितशीतरुक्सुधा, गङ्गाशुद्धविराट् सुराधिपैः ॥१०॥ ( शुद्धविराट्)
मात्राणामिव तन्वता त्वयाऽष्टादशकं ब्रह्मभिदां पदे पदेऽर्हन् । औपच्छन्दसकापरान्तिकावद्, यतिगणवृत्तविदाऽऽरचि व्रतश्रीः ॥ ११ ॥ (औपच्छन्दसकापरान्तिका )
चूर्णी भवन्त्यङ्गभृतामघौघाः काठिन्यवन्तोऽपि तव स्तवेन । स्वामिन्नतामत्र्त्यनरेन्द्रवज्राघातेन शैला इव निर्विलम्बम् ||१२|| ( इन्द्रवज्रा )
उपेन्द्रवज्रायुधपन्नगेन्द्रैरुपासितस्त्वं स्मितकैरवाक्षैः ।
सदास्यशीतद्युतिचन्द्रिकाम्भः पिपासुभिर्नाथ ! निरन्तरायम् ॥१३॥
अनुसंधान - २३
(उपेन्द्रवज्रा )
आख्यानि कीदृग् निजदुःखजातं, तवाऽग्रतोऽहं व्यथका यदेते । मुञ्चन्ति नाऽद्योप्युपजातिभृङ्गाः इव प्रभो ! मां मलिना अघौघाः ॥१४॥
(उपजाति)
,
दोधकमुख्यसुवृत्तनिबद्धै रासशतै रसवद्भिरधीश ! । निर्जरनागनभश्चरनार्यः कुत्र जगुर्न भवत्सुभगत्वम् ||१५|| (दोधक)
स्वःस्त्रीकुलमुज्ज्वलनाट्यरसात् साक्षिभ्रमिसन्मुखमोटनकम् । नानाकरणोद्भटमपाहरच्चित्तं ( ? ) न तवेश ! रतीशजितः ||१६|| ( मोटनक)
कामं स्वामिंस्त्वदमलचलनाम्भोजस्फूर्जभ्रमरविलसिताः ।
मर्त्याः प्रापुः प्रमुदितमनसः कल्याण श्रीरसमसमतरम् ||१७|| (भ्रमरविलसित)
,
Jain Education International
पादाम्भोजं पुण्यसौरभ्यलोभासङ्गिस्वर्गश्रेणिभृङ्गावलीकम् । सद्भावाम्भ: शालिनीश ! त्वदीयं, वासं शश्वन्मानसे मे वितन्यात् ॥१८॥ (शालिनी)
नाथ ! विष्टपकृपाऽपरान्तिका यात विश्वमहिता पदद्वयी । पूरिताखिलमनोरथोद्धतानन्ततापशमनाय मेऽस्तु ते॥१९॥
( अपरान्तिका रथोद्धता)
For Private & Personal Use Only
-
www.jainelibrary.org