________________
अनुसंधान-२१ ।२। तथा तस्मिन्नेव वस्तुनि समकाले सामान्यविशेषावपि स्यातामिति तृतीयः ।३। तथा वस्तुनि अवक्तव्यधर्मत्वं परमाणुरूपमस्तीति चतुर्थ : ।४। तथाऽनुक्रमेणैव एकया विशेष(सामान्य)कल्पनया वस्तुस्वरूपं कथयितुमशक्यमतोऽवक्तव्यमिति पञ्चमः ।५। तथाऽनुक्रमेणैकया विशेषकल्पनया वस्तुस्वरूपं कथयितुमशक्यत्वादवक्तव्यमिति षष्टः ६। तथा वस्तु युगपत् समकाले सामान्यविशेषत्वेन कथयितुमशक्यत्वादवक्तव्यमिति सप्तमः ।७। इति नैगमनयः ॥
अथ संग्रहनयमाह - सकलभुवनत्रयवर्तिकालत्रयभाविवस्तुकदम्बकस्य कथक: संग्रहः । तत्र दृष्टान्तो यथा- घटोऽनेकैर्नीलपीतादिभिर्वर्णैर्युतो व्यक्तिमानस्ति, तथापि सामान्यद्रव्येण स एव घट उच्यते । तथा श्वेतपीतरक्तकृष्णादिवर्णवती व्यक्तियुक्ता गौः सास्नादिगोधर्मत्वेन सा गौरेवोच्यते । तथा जातिगोत्र-वर्ण-रूप-संहनन-संस्थानाऽ-वगाहनादिभेदभिन्ना अपि मनुष्या मनुष्यत्वधर्मेण सर्वे मनुष्याः । तथा घटघटीशरावाद्यनेकपर्यायाः सन्ति परं मृद्द्रव्यमेक(कं) एव । एवं सर्वत्र विचार्यम् । वस्तुतो यदविनाशिधर्मः (?) द्रव्यं तत्सामान्यद्रव्यं, न तु पर्यायः । पर्यायः समये समये विनश्यति ।।
___अत्र विशेषवादिभिर्बोद्धचार्वाकादिभि: सामान्यं नाङ्गीक्रियते । तैः शाश्वतं किमपि न मन्यते सर्वक्षणविनश्वरम् । सामान्याद् विशेषो भिन्नो वाऽभिन्नो वा ? । चेत् सामान्याद् भिन्नो विशेषः, तदा विशेषोऽवस्तुस्वभावो भविष्यति खरविषाणवत् वन्ध्यापुत्रवत् । सामान्यं वस्तु । स्थिरस्वभावः सामान्याश्रितो विशेष: सर्ववस्तुपर्यायग्राहक: संग्रहः ॥ इति संग्रहनयः ॥
अथ व्यवहारनयः । येन सकललोकस्य प्रवृत्तिनिवृत्तिर्वा जायते स व्यवहारः वस्तुपर्यायविशेषरूपो न तु सामान्यधर्म : । यथा जलार्थी पुमान् घटादिगवेषणं करोति, न तु मृद्रव्यस्य । ततो व्यवहारे विशेष एव उपकारी, न तु सामान्यम् । वस्तुधर्म एव व्यवहारसाधकः । यतो विशेषं विना सामान्य (न) भवति । "निर्विशेषं हि सामान्यं भवेत् शशविषाणवत्" । विशेषं विना सामान्यं शशविषाणतुल्यमसदुक्तं तत् कथं कार्यसाधकं स्यात् ? मरुमरीचिकावत् असद्रूपत्वात् । व्यवहारनये विशेषपदाथैः घटपटलकुटादिभिः प्रयोजनम् । इति व्यवहारनयः ॥
अथ ऋजुसूत्रनयः । ऋजुत्वेन-सरलत्वेन सामान्येन वस्तुपदार्थप्ररूपक:
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org