SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - २० यत् तेषामकृत्रिमत्वं न स्वीक्रियते ? । किञ्च यद्यसावकृत्रिमस्तदा तन्निष् जीवा अपि तत्सत्ताभवनतुल्यकालत्वादनादय एव प्राप्ता इति गतं विवादेन । अथ नाऽसौ स्वसत्तासमकालमेव जीवान् कुरुते यत् तेषामनादिता स्यात् किन्त्वनन्ते कालेऽतीते इति चेत् । तर्हि तस्याऽनित्यत्वं स्यात् । पूर्वं विद्यमानस्याऽकारकत्वस्वभावस्य प्रच्युत्याऽविद्यमानस्य कारकत्वस्वभावस्योत्पादात्, स्वभावस्य च स्वभाविनोऽनर्थान्तरत्वात् । यदि च नाऽस्त्येव स्वभावभेदस्तदा पूर्वमिव पश्चादप्यकारकत्वमेव स्यात् । ननु तस्यैक एवेदृश: स्वभावो यदनन्ते कालेऽतीते सति स जीवान् कुरुते नाऽन्यदा । तथा च न तस्य स्वभावभेदो नाऽपि जीवानामनादिता इति चेत् । न । अनन्ते कालेऽतीते सति स तस्य स्वभावो निवर्तते एवेति वाच्यम् । तथा चाऽनित्यत्वमेव तस्य, स्वभावभेदस्याऽनित्यत्वलक्षणात् । अन्यथा सर्वादाऽप्यकारकत्वप्रसङ्गात्, करणकालत्वाभिमतकालेऽपि तस्य सत्त्वात् । किञ्च नाऽसौ सतो जीवान् कुरुते, सतोऽपि करणेऽनवस्थानात् । नाऽप्यसतः, एकान्ततुच्छत्वेन तेषां वन्ध्यापुत्रादीनामिव भवनशक्त्ययोगात् । तन्नाऽजीवोऽपि जीवानां कर्तेति कारणविरहादनादिरेव जीवः, आकाशवत् तदुक्तं अमओ य होइ जीवो कारणविरहा जहेव आगासं । समयं च होअणिच्चं मिम्मयघड - तंतुपडमाई ॥ ॥ इति| 79 अनादित्वाच्चाऽनन्तत्वमपि, सतः सर्वथा विनाशायोगात् । तत् सिद्धमेतत् यद्-अस्ति जीवः, अनादिरनन्तश्च । सोऽपि अमूर्त:, अतीन्द्रियत्वात्, गगनवत् । यो हि मूर्त्तः स कदाचिच्चक्षुरादीन्द्रियग्राह्योऽपि भवति । यथा घटारम्भकपरमाणु समूहो घटावस्थायाम् । न चाऽयं जीवः कर्मविनिर्मुक्तस्वरूपः कदाचिदपि चक्षुरादीन्द्रियग्राह्यो भवति, तेनाऽतीन्द्रियत्वादमूर्त्त एव । एवमन्येऽपि अमूर्त्तत्वसाधने मूर्तिविरह खड्गाद्यभेद्यत्वाऽसर्वज्ञानुपलम्भादयो हेतवोऽभ्यूह्याः । न चैवं सिद्धान्तविरोधः कथञ्चिन्मूर्त्तत्वस्य संसारिदशायामेवेष्टत्वात् । सिद्धि दशायां तस्य 'अवण्णे अगंधे' इत्यादिना सूत्रेणाऽऽगमेऽपि अमूर्तत्वेनैव भणनात् । अथाऽयं जीवः परिणामी अपरिणामी वा । तत्र परिणामीति जैना: । अपरे पुनरपरिणामीति । तद् विचिन्त्यते । यथा मृत्पिण्डश्चक्रादिसामग्रीसद्धावाद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy