________________
अनुसंधान - २०
43
कायाकारपरिणत भूतेभ्यः पुनरस्याऽभिव्यक्तिः, सुराकारपरिणतेभ्यस्तेभ्य इव तस्या इति चेत् । न । अविद्यमानायाश्चेतनायाः कायाकारपरिणत भूतैरभिव्यक्तेरसिद्धेः । ननूक्तमेव कायाकारात् प्रागपि भूतेषु अनभिव्यक्ता सा विद्यते इति चेद् उक्तं, परमयुक्तम् । तत्सत्त्वे प्रमाणाभावात् । न च विना प्रमाणं किञ्चित् सिध्यति, सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गात् ।
न च प्रत्यक्षमेव प्रमाणं, अतीन्द्रिये विषये तत्प्रवृत्तेरसिद्धेः । अनुमानं तु त्वया न स्वीक्रियत एव, अपसिद्धान्तापातात् ।
1
ननु सिद्धान्तरहस्यमिदमस्माकम् । सैद्धान्तिकैरुक्तं यदलौकिकमनुमानं स्वर्गनरकादिप्रसाधकं तन्न प्रमाणम् । लौकिकं तु धूमादि प्रमाणमेव । तद्दर्शनानन्तरं समस्तेनाऽपि लोकेनाऽग्नेरनुमीयमानत्वात् इति चेत्
-
हन्तैवमपि अकायाकारभूतेषु चैतन्यानुमानमप्रमाणमेव समस्तेनाऽपि लोकेन तत्र चेतनाया अननुमीयमानत्वेनाऽस्यालौकिकत्वात् । इत्थम्भूतस्याऽपि लौकिकत्वे स्वर्गनरकादिसाधकस्याऽपि लौकिकत्वप्रसङ्गात् ।
यत् तृक्तं काष्टपिष्टादिषु प्रत्येकमनुपलभ्यमानाऽपि मदशक्तिः सुराकारपरिणतैस्तैरभिव्यज्यते यथा तथा कायाकारपरिणतैर्भूतैश्चेतनाऽपीति । तदविचारितसुन्दरम् । यतो मदशक्तिर्न काष्टपिष्टादिवस्तुस्वरूपं, सुराकारपरिणामपूर्वदशायामपि तस्य सत्त्वेन तदभिव्यक्तिप्रसङ्गात् । न चाऽतीन्द्रियैव काचित्, तत्साधकप्रमाणाभावात् । न च भवद्भिः प्रागनुपलभ्यमानाऽपि तस्या अभिव्यक्तिरङ्गीक्रियत एव समुदायदशायामिति वाच्यम्, काष्टपिष्टादीनां मदशक्तावभिव्यञ्जकत्वासिद्धेः । विद्यमानं हि वस्तु येन प्रकाश्यते तदभिव्यञ्जकं, यथाऽन्धकारदशायां घटादेः प्रदीपादि । न च मदशक्तिरपि विद्यमाना, प्रमाणाभावात् । तत् कथं काष्टपिष्टादीनां तदभिव्यञ्जकत्वं ? किन्तु तज्जनकत्वम् । तत्सामग्रीसमावेशे तदुत्पत्तेर्दर्शनात्. मृत्पिण्डादिसामग्यां घटवत् । तन्न तद्दृष्टान्तेन चेतनाया अभिव्यक्ति: सिद्ध्येत ।
1
यदपि - 'राथा नीलता प्रत्येकमनुपलभ्यमानाऽपि तन्तुसमुदायें उपलभ्यते तथा चेतनाऽपि' - इति कश्चित्, तत् तुच्छम् । नीलतायाः पटादषूपलभ्यमानायाः प्रत्येकमपि तन्तुपक्ष्मादौ दर्शनात् । नह्येवं चेतनाऽपि प्रत्येकमुपलभ्यते, येनाऽयं दृष्टान्त: सम्यक् स्यात् । तदुक्तं "नीलादितुल्यताऽपि च प्रत्येकमदृष्टतोऽयुक्तेति" ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org