SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 40 July 2002 मृदादेरेवोपादानात्, तदेतदात्मन्यपि तुल्यं; सर्वैरपि वादिभिः शरीरस्य जडत्वेन तदतिरिक्तेनैव चेतनेन दर्शनस्मरणप्रत्यभिज्ञानालोचनादिकरणात् । नन्वहंप्रत्ययो नाऽऽत्मविषयोऽहंप्रत्ययत्वात्, स्थूलोऽहमिति प्रत्ययवदिति चेत् न; विपक्षबाधकाभावेनाऽप्रयोजकत्वात् । सहचारदर्शनमेव विपक्षबाधकमिति चेत्, न; दूरस्थमङ्गारभृतं पात्रं धूमवत् वह्निमत्त्वादित्यस्याऽपि प्रयोजकत्वपातात्, महानसादौ धूमध्वज-धूमयोः सहचारदर्शनात् अनुमानप्रामाण्याङ्गीकारेऽपसिद्धान्ताच्च । ननु सुहृद्भावेन पृच्छामि स्थूलोऽहं कृशोऽहमिति योऽहंप्रत्ययः स नाऽऽत्मविषयोऽहं सुखी अहं दुःखीति प्रत्ययस्तु आत्मविषयः इत्यत्र किं नियामकम् ? इति चेत् न । उभयस्याऽप्यस्याऽऽत्मविषयकत्वात्; अन्तर्मुखावभासितया प्रवृत्तत्वेन । किन्तु 'स्थूलोऽहं' इत्यादिरूपस्य भ्रमत्वम्, अस्थूल एवाऽऽत्मनि स्थूलत्वग्रहणरूपत्वात् । अतत्प्रकारे तत्प्रकारकज्ञानस्यैव भ्रमत्वात् । 'अहं सुखी' ति ज्ञानस्य तु प्रमात्वं सुखिन्येव सुखग्रहणस्वरूपत्वात् । तद्वति तदन्याप्रकारकज्ञानस्यैव च प्रमात्वात् । नहि तस्येवाऽस्याऽपि भ्रमत्वमेव, रक्तजपाकुसुमसंसर्गाद् रक्त: स्फुटिक इति ज्ञानस्येव कठिनः स्फुटिक इत्यस्याऽपि भ्रमत्वप्रसङ्गात् । अथ भवति रक्तः स्फुटिक इति प्रत्ययस्य भ्रमत्वं, जपाकुसुमसंसर्गाभावे शुक्लः स्फुटिक इति बाधकज्ञानदर्शनात् । न तु कठिनः स्फुटिक इत्यस्याऽपि, द्रवत्वाधिकरणं स्फुटिक इति विपरीतप्रत्ययस्य जातुचिदप्यदर्शनात् इति चेत् । तर्हि कुतो न भवति स्थूलोऽहमिति प्रत्ययस्य भ्रमत्वम् ? अहं सुखीति प्रत्ययस्य चाऽभ्रमत्वम् ? मोहापगमे विवेकाकलिते मनसि 'स्थूलोऽहं नाऽस्मि, किन्तु शरीरं मे स्थूलं' इति भेदप्रत्ययस्य बाधकस्याऽत्राऽपि दर्शनात्: 'नाऽहं सुखी, किन्तु शरीरं मे सुखि' इत्यस्य च कदाचिदप्यदर्शनात् । वस्तुतस्तु स्थूलोऽहं इत्यादिप्रत्ययस्याऽपि भेदं तिरस्कुर्वत एवोत्पद्यमानस्य भ्रमत्वं, स्थूलशरीरवानहमित्येवं शरीरोपाधिकतया जायमानस्य तु आत्मालम्बनतयाऽपि सत्यत्वमेव । दृश्यते चाऽभेदतिरस्कारेणाऽपि तज्जायमानं यथा स्थूलं कृशं वा मम शरीरमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy