________________
28
July-2002
मम त्वयि-भवति तावत्- तावन्तं कालं रागोऽस्तु-भक्तिर्भवत्वित्यर्थः ॥ अथापरार्द्धव्याख्या:- हे वर्धमानजिन ! ते-तुभ्यं नमोऽस्तु । किंविशिष्टाय तुभ्यं ? शास्वतचैत्यभूमाननाग्र्यपुण्ड्राय-सिद्धायतनभूमिश्रीमुखप्रधानतिलकाय। इति वृत्तार्थः ॥१२॥
अथ नायकस्थाने बन्धुकस्वस्तिकचित्रस्थापनातातोपमा मानविहीनदेहा हावादिना नाकिनराबलाभिः । भिन्ना न येऽये स्वबलैरमेया याचे रमामादरभाविनी तान् ॥१३॥
ता
प
मा
कसाबला
व्याख्या : ये जिना नाकिनराबलाभिः- अमर्त्यनायिकाभिर्हावा[दिना]भावादिविकारेण न भिन्ना-न मनागपि क्लिन्नाः । किंविशिष्टाः ? तातोपमाःपितृतुल्याः । अपरं किंविशिष्टाः ? मानविहीनदेहा-अभिमानवर्जितदेहाः । अये इत्यामन्त्रणे । अपरं किंविशिष्टाः ? स्वबलैरमेयाः - निजवीर्यैरप्रमेयाः । तान् जिनानहं रमां-लक्ष्मी याचे-मार्गयामि । किंविशिष्टां रमां ? आदरभाविनीआदरेण-तपोविधानध्यानलक्षणेन भवतीत्येवंशीला आदरभाविनी तां मुक्तिलक्षणामित्यर्थः ॥१३॥
अथ चतुर्थचित्रस्तवसमाप्तिवृत्ति(त्त)माह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org