________________
अनुसंधान-१५ • 51 एवं य: कमलाभिधानसुमनःस्तोमैः श्रिया निर्मलैनिर्माय प्रवरार्थसौरभभरैः स्तोत्रस्रजं सद्गुणाम् । भक्त्या श्रीवृषभाख्यविष्टपविभोरारोपयत्यादरात् तस्यासौ वरमालिकां शिवरमाकण्ठे निदेधीयते ॥१२९॥ भक्त्या श्रीयुतशान्तिविष्टपविभोरारोपयत्यादरात् । एवं पार्श्व-नेमि-वीराणामपि नामानि क्षेप्यानि
सद्योगैः कमलादिमैः कृतजनिर्दिष्टे विशे(शि)ष्टे स्फुरलक्ष्मीसागरउल्लसत्सुमतिसाधुप्राप्यसद्दर्शनः । तेजोराजिविराजिहेमविमलप्राज्यप्रतापोदयः सश्रीआदिजिनः सहर्षकुलजः कुर्यादहार्याः श्रियः ॥१३१(३०)। सश्रीशान्तिजिन-इत्यादि स्वयं ज्ञेयम् ।
पं हर्षकुलगणि कृता कमलपञ्चशतिका ॥ श्रीसोमविमलसूरिणा
स्वकृते शोधिता ॥श्रीरस्तु॥
१.कमलं पद्मं तस्योपलक्षणत्वात् शेषपुष्पग्रहणम् ॥ २. कमलयोगो जन्मपत्रिकायां सतां जायते, स ज्योतिर्विदां प्रसिद्धः । ३.स्यात्काल: समयो दिष्टः काल इत्यर्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org