________________
अनुसंधान-१५ • 49 तत्त्वन्मां कमलान्तजमुखमथवायौ कमलवसानमिनः । पाहि कमलान्तबान्तं दधतं सकमलवसानमेयन् ॥११६॥ प्राग्नाशं कमलस्य नूतनसरस्याख्यापयन् वादिनां प्रध्वंसात्कमलस्य सारसरसि प्रक्षीणनीरे क्षयम् । अन्योन्यापगमं तथा च कमलस्याख्यासि वद्भावथात्यन्ताभावमवैषि नाथ कमलस्यासारभृत्पल्वले ॥११७॥ कमलमकमलं वा भावयुग्मं जगत्यां कमलमिति यनित्यं पर्ययं भाषमाणः । कनककमलवल्लीचित्रिते चारुसौधेप्यरतिरकमलस्या त्वेष विद्वेषभाजः ॥११८॥ कमलान्तबादिमं मां क्रीडॉकन्दुकमलान्तजाग्रण्यं । अयशःपङ्कमलान्तजसमवचसा क्षालयन्पुनीहि विभो ! ॥११९|| कमलसि समस्तभविनां कमलवदातस्तवोत्तमः श्लोकः । कमलष्टमूर्तिभक्तः स्यात्तदसेवी कमलबोधः ॥१२०॥ अमिअपरक्कमलद्धी अवगयपकमललंतगुणरासी । अणवैक्कमलद्धजओ अणुर्वकालक्ख जिअकालो ॥१२१॥ संवच्छरप्पसरविक्कम लायतुल्लं विनायवोममेणि संकमलेग्गवेलं ।
१-२.कंकिलक्षणं अलांतजमुखं अल इति वर्णद्वयं अंते यस्य एवंविधो जो जकार एतावता जाल इति समुखे आदौ यस्य ककारस्य, एतावता जालकं गवाक्षं तुल्यं मां कस्मिन् विषयेऽथ वायौ पापागमे गवाक्षतुल्यं मां पाहीत्यर्थः, ३.कंकिलक्षणं अल इति अंते यस्य स, बो बकार सबल इति अंते यस्य एतावता कंबलं, सकं अलवसानं सकलं वस्तु अयन् जानन् । ४५. अल इत्यवसाने यस्य एवं भूतं कं कलमित्यर्थः, ६.प्रागभावं, ७.प्रध्वंसो क्षयं-प्रध्वंसाभावं, ८.अन्योन्याभावं, ९.कं जलं अट्टते हिनस्ति कमड् अप्कायविराधकः । न ईदशो य: स अकमड्, स वैरिणः रिपून् अस्यतु क्षिपतु, १०.अलांतः बः बालः इति द्वयं वर्णयोरादिमं यस्य-कस्य तं बालकं मामित्यर्थः, १०अ. क्रीडायां कन्दुको मुखं यस्यस्तं मां, ११.अलं अंतेयस्य ल इतिवर्णस्य एवं जल इति जडानां मूर्खाणामग्रणी, १२.जलं नीरं तत्समवचसाऽयश: पंकं क्षालन्, १३.कम् अव्ययं सुखार्थे अडति-उद्यमं करोति कम्(कमड् ?), १४.शैवः, १५.स कमड् स्यात्, कं सुखं अट्टते अतिक्रामति सुखरहित इत्यर्थः, १६.पराक्रमो बलं, १७.अज्ञातप्रक्रमः, १८.प्रस्तावः, १९. अप्रक्रमः कमोल्लङ्घनः न ईदृशः अनवक्रमः, २०.निरुपक्रमः लक्ष्यजीवितकालः, २१.व्योममणिः, २२.सङ्क्रमः, २३. लग्नवेला ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org