________________
॥८१॥
॥८२॥
अनुसंधान-१५ • 16 सन्ध्यातिमेध्या मुखपूर्णिमेन्दोः । जाघट्टि शोणोपलकुट्टिमं वा वक्षोङ्गणे कञ्चकचक्रवर्ती आकल्पकीति कलितप्रतापां । वक्षोवनीमुल्लसितप्रवालाम् । चर्कर्ति चोलः कुचशैलभूमी यस्याः समीरोद्भुतधातुधूलीम् वैराग्यभङ्ग्या हृदयाद् यदीयाद् यः पुस्तकान्तर्गतकान्तसूक्तैः । कृष्टो बहिस्तिष्ठति रागराशिः शङ्के स लोकेऽजनि कञ्चकाख्यः ॥८३।। काश्मीरदेशस्य ददात्यदोऽत्युत्कर्षं ततः प्रीतिवशात्तदीशा । केदारमेकं हृदि कुङ्कुमस्याऽऽदत्ते स्म या वै मितकञ्चुकं नु ॥८४॥ काठिन्यमुद्धृत्य हृदो बहिर्या वर्यावकार्षीत्] कुचरूपकूटौ । तेनाऽजिजीवज्जनतां यदल्पादप्याश्रितानां करुणां विधाता लावण्यपुण्याम्बुघटौ मनोभूमत्तेभकुम्भौ रतिकेलिगोलौ । मुक्तालतापक्वफले तदुत्थज्योतिर्जले पाटलपद्मकोशौ तेजस्विवाग्बीजमणी समुद्रौ. हृद्धामसद्धर्मविवेकमौली । ज्ञानामरद्रुस्तबकाविति स्याद्यस्याः कुचद्वय्युपमानिघण्टुः ॥८७॥ युग्मम् ॥
॥८५॥
॥८६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org