________________
63
३०
साहित्यश्रये न लक्षणा। धवखदिरौ छिन्धीत्यत्र धवखदिरमात्रप्रतीत्या क्लृप्तशक्त्यैवोपपत्तेः धवपदस्य धवे शक्तिः खदिरपदस्य खदिरे शक्तिस्तथा च वाभ्यां शक्तिभ्यामेव धवखदिराविति स्वरूपद्वयप्रतीतेः न साहित्याश्रये लक्षणेति भावः । नीलोत्पलमित्यत्र नीलाभिन्नमुत्पलमित्यर्थः । तथा चोत्पलपदस्य होलाभेदविशिष्टोत्पले लक्षणेति केचित् । तन्न । अभेदस्य संसर्गविधयैव पानात् ।
प्रथमायामिति । घटपदोत्तरप्रथमायाः षष्ठ्यर्थे वा लक्षणा। तथा च न घटः पट' इत्यत्र घटसम्बन्धवदभाववान् पटः । इत्थं च घटसम्बन्धरूप: षष्ठ्यर्थः अभावोपरि प्रकारतया भासत इति ।
विभक्त्यर्थप्रकारको नामाऽर्थविशेष्यक: शाब्दबोधः, स च भेदेनैवोपपन्नः। लथमिति ? भारतस्य श्रवणमित्यत्र भारतकर्मकं श्रवणमित्यर्थः । स च विना लक्षणामनुपपन्नः ।
तथेति । घटो नाऽस्तीत्यत्राऽपि प्रथमायाः षष्ठ्यर्थलक्षणा। तथा च यो नाऽस्तीत्यत्र घटसम्बन्ध्यभावोऽस्तीत्यर्थः।
एकस्यामिति । एकाया बहुत्ववैशिष्ट्याद् बहुत्वस्यैकत्वे लक्षणा ।
घट: पटो नेत्यत्र पटाभाववान् घट इति शाब्दबोधः। तथा च घट: पटाभावस्याऽऽश्रयः आश्रयी च घटाभावः। एवं च पटाभाव-घटयोः आश्रयाश्रयीभावः सम्बन्धः, ननु पटाभाव-घटयोः कथं अन्वयः? नामार्थयोर्भेदेनाऽन्वयस्याऽव्युत्पत्तेः । ननु घट: पटो नेत्यत्र घटपदस्याऽर्थो घट:, पटपदस्याऽर्थो पट:. नअर्थश्चाऽभावः । नजुत्तरलुप्ता या षष्ठी तदर्थः सम्बन्धः । तदुपस्थिति नजुत्तरलुप्तषष्ठीस्मरणात्। तथा च घटो नेत्यस्य घटाभावसम्बन्ध इत्यर्थः । वाक्यार्थस् घटाभावसम्बन्धवान् घटः । एवं च न नामार्थयोरन्वयः किन्तु विभक्त्यर्थनामार्थयोरिति । स च भेदेनाऽप्युपपन्न इति चेत् , न। षष्ठीलोप-मजानतोऽपीति ।
३०. मुद्रिते पृ. २२९ । प्रथमाया इति मु.। ३१. मुद्रिते पृ. २३४ । ३२. मुद्रिते पृ. २२९ । ३३. मुद्रिते पृ. २३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org