SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 61 महिव्याप्यालोकवानिति परामर्षादपि सम्भवात् व्यतिरेकव्यभिचारः । न च लिङ्गकानुमितित्वावच्छिन्नं प्रति धूमपरामर्षत्वेन हेतुत्वं, तथा च आलोकरामर्षजन्यानुमितिस्तु न धूमलिङ्गका येन व्यभिचारः स्यादिति वाच्यम् । समलिङ्गकत्वं च धूमज्ञानज्ञाप्यत्वं तथा च यत्र धूमः पक्षतावच्छेदकत्वेन भातस्तत्र समवान् पर्वतो वह्निव्याप्यालोकवानिति परामर्षजायां पर्वतो वह्निमानित्याकाकायामनुमितौ व्यभिचारः इति चेन्न । पर्वतो वह्निमानित्यनुमितित्वावच्छिन्नं प्रति वाव्यवहितपूर्वकालवृत्तिधूमपरामर्षस्य व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन कारणता । मस्ति च आलोकपरामर्षजन्यानुमितावपि व्याप्तिप्रकारकपक्षधर्म- ताज्ञानजन्यत्वं आलोकस्याऽपि धूमवद्वह्निव्याप्यत्वात् पक्षधर्मत्वाच्चेति सङ्क्षेपः । “जन्यपदज्ञानजन्यत्वव्यभिचार्यनुभवत्वाव्यापकजातिशून्यत्वे सति मंदविषयकत्वाव्यभिचारिजातिशून्यधीत्वं शाब्दत्वम् । जन्यं यत् पदज्ञानं तज्जन्यत्वस्य व्यभिचारिणी जन्यपदज्ञानजन्यत्वासमानाधिकरणेत्यर्थः । एतादृशी अनुभवत्वस्याऽव्यापिका या जातिः प्रत्यक्षत्वानुमितित्वादितच्छून्यत्वे सति या | मदविषयकत्वाव्यभिचारिणी जाति: उपििम्तत्वम् । तच्छून्यत्वे सति धीत्वं शाब्दत्वम् प्रत्यक्षत्वादीनां अनुभवत्वाव्यापकत्वं तु यत्र यत्र अनुभवत्वं तत्र तत्र प्रत्यक्षत्वादीनामसत्त्वात् । पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति धीत्वं शाब्दत्वमित्युक्ते प्रत्य"क्षादावतिव्याप्तिः; पदविषयकत्वाव्यभिचारिणीजाति: उपमितित्वं तच्छून्यत्वे सति घीत्वस्य प्रत्यक्षादौ सत्त्वात् । तद्वारणाय जन्यपदज्ञानजन्यत्वव्यभिचार्य'नुभवत्वाव्यापकजातिशून्यत्वे सति प्रत्यक्षादौ पदविषयकत्वाव्यभिचारिजाति: उपमितित्वं तच्छून्यत्वे सति धीत्वस्य सत्त्वेऽपि जन्यपदज्ञानजन्यत्वव्यभिचा"रिणी या अनुभवत्वाव्यापिका जातिः प्रत्यक्षत्वादि तच्छून्यत्वाभावात् जन्यपदज्ञानजन्यत्वव्यभिचारिजातिमत्त्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति घीत्वमित्युक्ते प्रत्यक्षादावतिव्याप्तिः, प्रत्यक्षादौ जन्यपदज्ञानजन्यत्वव्यभिचारिजा ★ इदं अनुमानलक्षण एव लेख्यम् । २८. मुद्रिते पृ. १५० । २९. ०धीजन्यत्व० मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy