SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 59 ननु आलोकसंयोग-चक्षुःसंयोगयो:समानकालीनत्वस्थले विनिगमनाविरहात् द्रव्यप्रत्यक्षत्वेन आलोकसंयोगावच्छिन्नचक्षुःसंयोगत्वेन चक्षुःसंयोगावच्छिन्नालोकसंयोग्त्वेन चेति कार्यकारणभावद्वयावश्यकत्वात् यत्र चक्षुःसंयोगः पूर्वं जातः तत्र द्रव्यप्रत्यक्षत्वेन आलोकसंयोगावच्छिन्नचक्षुःसंयोगत्वेन कार्यकारणभावेऽप्यक्षतिरिति चेन्न । आलोकसंयोगावच्छिन्नचक्षुःसंयोगत्वेन क्षुःसंयोगावच्छिनलोकसंयोगत्वेन च कारणत्वे आलोकसंयोगे चक्षुःसंयोगः, चक्षुःसंयोगे आलोकसंयोगः इति प्रतीत्यापत्तेः । यथा शाखावच्छेदेन कपिसंयोग पत्र शाखायां कपिसंयोग इति । तस्माद् बहिरिन्द्रियजन्यलौकिकप्रत्यक्षत्वेन यालोकसंयोगावच्छेदकावयवावच्छिन्नचक्षुःसंयोगत्वेन कार्यकारणभाव इति नमः । इत्थं च आलोकसंयोगस्य अधिकरणावच्छेदका ये अवयवास्तदधिकणकः चक्षुःसंयोग इति प्रतीतिरपि निराबाधा। शः विनिगमनाविरहात् आलोकसंयोगावच्छेदकावयवावच्छिनचक्षुःसंयोगत्वेन प:संयोगावच्छेदकावयवावच्छिन्नालोकसंयोगत्वेनेति कार्यकरणभावद्वयं तु दावश्यकमेवेति । तन्न । कादाचित्कालोकसंयोगस्याऽवच्छेदकत्वमादाय मकालीनचक्षुःसंयोगात् द्रव्यप्रत्यक्षापत्तिः, आलोकसंयोगावच्छेदवयवावच्छेदेन चक्षुःसंयोगस्य सत्त्वात् । चक्षुःसंयोगकालीनालोकसंयोगावच्छेदकावयवावच्छिन्नचक्षुःसंयोगत्वेन मैलोकसंयोगकालीनचक्षुःसंयोगावच्छेदकावयवावच्छिन्त्रआलोकसंयोगत्वेन च बल्णत्वे तु गौरवम् । तस्मात् आलोकसंयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन बसोकसंयोगविशिष्टचक्षुःसंयोगत्वेन कारणता इति नव्यतराः । तन्न, विनिगमवरहात् *आलोकसंयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन आलोकसंयोगविशि ःसंयोगत्वेन चक्षुःसंयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन चक्षुःसंयोगविशिलोकसंयोगत्वेनेति कार्यकारणभावद्वयमावश्यकम् । अवच्छेदकगौरवमधिक आलोकसंयोगावच्छेदका ये अवयवा, भित्त्याद्यवयवा इत्यर्थः, तन्निरूपितं अवच्छेद्यत्वं च चक्षुःसंयोगे वर्तते। अनेन सम्बन्धेन आलोकसंयोगविशिष्टश्चक्षुःसंयोग: कारणं, तेन तमःकालीनचक्षुःसंयोगान्न घटप्रत्यक्षत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy