SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 51 श्रीसिद्धिचन्द्रगणिकृतं न्यायसिद्धान्तमञ्जरी - टिप्पनकम् श्रीसर्वज्ञं नमस्कृत्य सिद्धिचन्द्रेण धीमता । न्यायसिद्धान्तमञ्जर्याः पदकृत्यानि लिख्यते (न्ते) ॥ १ ॥ १ । ननु किमिदं याथार्थ्यं ? - तद्वति तदवगाहित्वं याथार्थ्यम् । भवति हि रजते इदं रजतमिति ज्ञानं रजतत्ववति तदवगाहीति याथार्थ्यम् । शुक्काविदं रजतमिति ज्ञानं नाऽरजतत्ववति तदवगाहीति न याथार्थ्यम् ।* I ननु एवं रजते इदं रजतं नवेति संशयोऽपि प्रमा स्यादिति चेत्रजतत्वांशे प्रमैव । तद्वति तदनुभवस्तत्प्रमेति प्रामाणिकाः । एवं च रजतत्ववति रजतत्वप्रकारकानुभवो रजतत्वप्रमेत्यर्थः । घटत्ववद्विशेष्यकत्वे सति घटत्वप्रकारकत्वं प्रामाण्यमित्यर्थः । अनुभवत्वं च स्मृतिभिन्नज्ञानत्वम् । तथा च स्मृतित्वानधिकरणं ज्ञानं अनुभवस्तेन स्मृत्यन्तरे न व्यभिचारः । I व्यापारवदसाधारणकारणत्वं करणत्वमिति । कारणत्वं करणत्वमित्युक्ते कुठारदारुसंयोगेऽतिव्याप्तिः, तद्वारणाय व्यापारवदिति । कुठारदारुसंयोगस्य छिदां प्रति कारणत्वेऽपि तस्यैव व्यापाररूपतया व्यापारवत्त्वाभावात् । व्यापार-वत्कारणत्वं करणत्वमित्युक्ते ईश्वरज्ञाने ऽतिव्याप्तिः । यावत्कार्यत्वावच्छिन्न पति उपादानप्रत्यक्षत्वेनाऽहेतुत्वात् । अस्मदादिव्यापारेणैवेश्वरज्ञानस्य व्यापारवत्त्वात् । तद्व्यावृत्तयेऽसाधारणेति । ईश्वरज्ञानस्य यावत्कार्यत्वावच्छिन्नं प्रति हेतुत्वेन साधारणत्वात् । ननु व्यापारवदसाधारणं तत्करणं, यच्च करणं तद्व्यापारवदिति लक्ष्यलक्षणयोरभेदः । तद्व्यावृत्तये व्यापारवदसाधारणकारणत्ववत्करणम् । तथा च १. मुद्रितग्रंथे पृ. १० । २. किं वाऽनुभवत्वमित्यधिकं मुद्रिते । ३ - ४. यथार्थम् मु. । ५. चेन्न 9.11 ६. मुद्रिते पृ. १२ । ७. मुद्रिते पृ. १३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy