________________
80
किञ्च चतुर्मासीकृते स्तम्भनपुर-छायापुरी-भृगुकच्छनिकटग्रामग्रामीणग्रामनिविवत्सितझगडियाप्रभृतीनां श्रमणोपासका अतीवाभ्यर्थनां कृतवन्तः, स्तम्भननगरनिवासिनः पुनः पुनरायान्ति, अस्मिन् विषये श्रीमतां श्रीमती आजैव प्रमाणम् । सपरिवाराणां पूज्यानां श्रीमतां विजयनन्दनसूरिकुञ्जराणां च तनुलताकुशलोदन्तमभिलषामि। किङ्कराहँ किमपि कार्य कृपयाऽऽदेश्यम् । शिक्षावचनसुधासारैः सिञ्चनीयोऽयं जनः । अनलनिधिनिधीन्दुज्ञापिते विक्रमाब्दे
मधुबहुलनवम्यां मङ्गलेऽलेखि लेखः । बहुरसदरसातो लादिना किङ्करेण
प्रतिवचनप्रतीक्षादत्तचित्तेन मक्षु ॥१॥ वचनविरचनेऽस्मिन् गद्यपद्यानुयाते
विनयपथमतीतं बाललीलानुविद्धम् । सकविकथितदोषं श्लेषलेशानुसारे
किमपि च कठिनं वा क्षम्यमेतत् क्षमेशैः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org