SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 42 तस्मिन्नेकस्वरूपाणि सर्वाणि नगराणि च । सहजानीव दृश्यन्ते वर्ण्यन्ते कानि कानि तत् ॥४५॥ तत् पुरेषु चतुर्मासीमासीना मुनयश्च ये । उद्विग्ना बहु नाध्येतुं कुर्वन्ति कियदेतिकाम् ॥४६॥ गृहे गृहे बम्भ्रमित्वा समादाय निरादरम् । नीरसां भिक्षुवद्भिक्षा-मनन्ति यतयो यतः ॥४७॥ तस्मिन् जनपदे साधो-विबाधा जायते यदि । धौतधान्यं विना नैव लभ्यते लघुभोजनम् ॥४८॥ गुर्वादेशवशादेव देशे तस्मिँस्तपस्विनाम् । जायन्ते तिष्ठतां कष्टा-दब्दानीव दिनान्यपि ॥४९॥ अलब्धे तपसो वृद्धि-लब्धे देहस्य धारणा । इयं वृत्तिद्वयी तत्र-वर्तिनां व्रतिनामभूत् ॥५०॥ यतयस्तत्पुरं त्यक्त्वा चतुर्मासादनन्तरम् । पुनः स्वप्नेऽपि नेच्छन्ति निर्मोकमिव भोगिनः ॥५१॥ इत्यादि चरितं यस्य दृश्यते नैकशस्तव । तस्मै हे देश ! हल्लार ! दूरादथ नमोऽस्तु ते ॥५२॥ ॥ इति चरित्रं सम्पूर्णम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy