SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 39 यस्मिन्निव दिवाकीर्ति मतिभ्रमवती सती । चकार भूस्पृशां स्पर्श चातुरी न कदाचन ॥१२॥ "त्रिभिर्विशेषकम्" ।। विलोक्यं सकलं लोकं यत्र निस्त्रिंशतान्वितम् । पावित्र्यं किमिव त्रस्तं विजहें न च कर्हिचित् ॥१३॥ सुरभिद्रव्यताम्बूली-दलानां यज्जनावली । जानाति जातुचिदपि स्वप्नेऽपि न जनश्रुतिम् ॥१४॥ पुष्पावलोकनं लोक-लोचनेषु च कुत्रचित् । श्रूयन्ते श्रोतृभिर्यत्र पुष्पवत्यः स्त्रियस्तथा ॥१५॥ धान्यानां देववन्मान्या यल्लोकानां युगन्धरी । तदेव देवधान्यं किं जगुस्तन्नाम शाब्दिकाः ॥१६॥ क्वथितक्वाथसङ्काश-योन्नाला स्थूलपौलयः । जायन्ते यत्र सर्वत्र कूपिकायाः पिधानवत् ॥१७॥ यस्मिन्नभ्यूषभोक्तारः प्रायः सर्वे दिवानिशम् । ये च केचिदपि क्वापि दक्षा वयमिति स्थिताः ॥१८॥ दिनावसानसमये निष्पक्वं शाकवर्जितम् । कटुक्षिप्रचटह्वानं भोज्यं भुञ्जन्ति तेऽपि च ॥१८॥ "युग्मम्"। दैन्यं यस्मिन्नादधाना नीरसाहारकारिणः । भिक्षुभ्यो नातिरिच्यन्ते धनिनोऽपि च केचन ॥२०॥ यस्मिन् भूमिस्पृशामन्यत् स्वरूपं ब्रूमहे किमु । पशवोऽपि हि नाश्रन्ति तामश्नन्ति युगन्धरी ॥२१॥ सौवीरवारिणा पक्व-धौतधान्याशना जनाः । यत्र निस्तेजसो रेजु-भूभुजा तर्जिता इव ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy