________________
केचित्तु कर्मारम्भकालकृतस्यैवाऽत्र लक्ष्यतया कालान्तर - कृतप्रणामादावतिव्याप्तिवारणाय सत इति कर्मारम्भकालविद्यमानत्वे सतीत्यर्थ इत्याहुः । न चाऽनुगतं रूपमनादाय कथं तद्ग्रह इति वाच्यं तेन तेन रूपेण विशेष्यैव तद्ग्रहात् ।
1
ननु मङ्गलमाचरेदिति श्रुतिकल्पने श्रुतेः कथं प्रवर्त्तकत्वम् ? प्रवृत्तिविषयस्य विशेषाग्रहादिति चेत् ? न, नमस्कारादिकमाचरेदिति प्रत्येकमेव वैधिकल्पनात्। तथा च तदुपजीव्य विघ्नध्वंसकामनयाऽनुगतो मङ्गलव्यवहार ति न किञ्चिदनुपपन्नम् । नमस्कारत्वमपि स्वापकर्षबोधानुकूलतावच्छेकजातिमत्त्वमेव, सा च जाति: कायिकत्वादिस्वरूपा । न च कायिकत्वमपि जातिः, अन्यतरकर्मजन्यतावच्छेदिक या सङ्करापत्तेरिति वाच्यं, ज्जातेरनङ्गीकारात् । वाचनिकत्वमपि तत्तद्वर्णव्याप्यं भिन्नमेवेत्यलं विस्तरेण । ॥ इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्यमहोपाध्याय श्रीसिद्धिचन्द्र गणिविरचितो मङ्गलवादः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org