SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 56 येनेदं पठ्यते सर्वसमक्षं राजपर्षदि । अङ्गीकृत्य प्रतिज्ञानां, सप्तकं च सुदुर्वहम् ॥ सभायां बाहुमुद्धृत्य, जिनशासनवैरिणः । एकया वेलया सर्वे, वियन्ते जयवादिना ।। अन्यच्च - दम्भप्रोद्भटवादिशेखरमतोपन्यासविन्यासत - च्छेदाभ्युच्छलदन्धकारपरशुर्वादीन्द्रवेश्यापतिः । स्याद्वादर्थविरोधिसिन्धुरशिरःसञ्चारपञ्चाननः, पत्रालम्बनमातनोति जगति श्रीमेरुतुङ्गो गुरुः ॥ यस्येत्थं कीर्तिविलसति विदुषां मुखेषु, अन्यच्च - मलधारिगच्छनायकसूरिश्रीराजशेखरप्रमुखैः । गणभृद्भिर्गुणवद्भिर्ग्रन्थोऽयं शोधितः सकृपैः ।। अन्यच्च - इहोत्सूत्रं भवेत् किञ्चित्, प्रमादात्पतितं मम । शोधयन्तु कृपां कृत्वा, तदवद्यं बहुश्रुताः ॥ यावल्लवणसमुद्रो, यावन्नक्षत्रमण्डितो मेरुः । दिनपतिरुदेति यावत्, तावदिदं जयतु जिनचरितम् ॥ संवत् १४२४ वर्षे भाद्रपदकृष्णतृतीयायां गुरौ श्रीस्तम्भनेन्द्रप्रबन्धपुस्तकं लिषितं तपश्विगच्छनायकश्रीरत्नाकरसूरिशिष्यगणिमिश्रपद्मकीर्तिः पण्डितमिश्रसाधुमूर्तिमिश्राणामपरोधेन भक्त्या च ॥ छ । तत्त्वसार्थकसमाधिजन्मभिस्तापसैर्मुनिभिरस्ततामसैः । साम्प्रतं च विकले कलौ युगे, शासनं जिनपतेविभूषितम् ॥ शारदेन्दुकिरणैकसौदरेः, साधुमूर्तिविलसद्गुणाकरः । कं नरं विबुधवर्गशेखरं, नो न रञ्जयति रङ्गसागरः ॥ नभ इव नभो विशालं, सागर इव सागरस्तु गम्भीरः । श्रीमदभयदेवगुरोः नवतप इव नवतपो जयति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy