________________
52
इत्यालमालस्तुतिभिः स्तुतोऽनेकैरनेकधा । तमेकं परमात्मानं शरण्यं शरणं श्रि (श्र) ये ॥
यदा प्रवर्तमानेषु प्रबन्धेषु वचोऽनृतम् । शोधयन्तु कृपां कृत्वा तद्ज्ञातारः कृतोऽञ्जलिः ||
द्रविडदेशे कान्त्यां धनेश्वरनामव्यवहारिणो वाहनपञ्चशती परतीरात् निजतीरमागच्छन्ती जलधेरन्तः कुवायुना जलमार्गादन्यत्र क्षिप्ता पर्वतोभयान्तरे स्खलिता सर्वमाकुलं जज्ञे । विललास खेवाणी । “अन्यच्च यक्षकर्दमसम्भृता कचोलिकैका वारिधेरम्भसः प्रकटीजाता । श्रेष्ठिन् ! गृहाण चैनां पुनर्मुञ्च । समुद्रे यत्र पतति दोरकेन सह स्वेन हस्तेन तस्माद्विम्बमुद्धृत्य सुखेन वाहनैः सार्धं कान्त्यां व्रज । अस्याऽप्रतिमल्लनामपार्श्वस्य पूजया पुत्री (त्रो ?) भविष्यसि ।" तथा जातं पुत्रवर्धापनकदिने देववाणी जाताऽन्तरिक्षे तव हस्तान्मां कोऽपि गृहीत्वा यास्यति । तत्र देशे विख्यातं जातं तीर्थम् ।
धनेश्वरप्रबन्धोयं, सञ्जातो दशभिस्त्रिभिः । सर्वपापापहाराय, श्रीस्तम्भचरितस्तवे ॥ ३० ॥
( प्रबन्धः ३१ )
मालवदेशे सारङ्गपुरे जयपालनामा । तस्य पुत्रः सिंहनामा सिंहस्वप्नसूचितः जयन श्रीकुक्षिसम्भूतः सिंह इव पराक्रमी । पित्रोः परिवारस्यापि भयङ्करः । ततः पित्रा भयेन ग्रामस्त्यक्तः । तत्रापि राजहस्ती वशीकृतो यत्र गतोऽ भूत् । एकदा च सिंहेन सिंहो मारितः पापद्धिरसेन सर्वजनसमक्षं पित्रा कालाक्षरितः त्यक्तश्च । निर्गतो देशान्तरं भ्रमन् कनकगिरिनामयोगिनः शिष्यो नागार्जुननामा जातः । शिष्यपञ्चशतीमध्ये सर्वगुणोत्कृष्टः उत्कटश्च । एकदा गुरुणा "समूलं वटमानयन्तु हे शिष्याः ।" इत्यादेशं प्राप्य छित्त्वा समूलो वटः समानीतः शिष्यैस्तैः सर्वैः सम्भूय । नागार्जुनेनापि च वटबीजमेकमानीय दत्तं गुरवे । इति विज्ञप्ताः पूज्यपादाः "हे आदेश्यपादाः ! समूलोऽयं वट" इति विचार्य गुरुणा तद्वचः श्रुत्वा इदं मीमांसितं अतीवान्तर्मुखं च क्षोदक्षमं च एतस्याहो वचः । महायोगीन्द्रो भविताऽयम् । काले अन्यदा “शाकं मधुरमानय रे !” गुरूक्तं श्रुत्वा नागार्जुनो ययौ भिक्षायां । अन्धाया वेश्याया गृहे शब्दः क्षिप्तः । सा अक्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org