SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 48 अपुनर्भवपदफललाभः स्यात् अनेन व्रतेन जीवहिंसानृशंसेन तपसाऽपि च ? | अथवा - अहो ! देवा अपि खण्डज्ञानतया जनं भक्तं विप्रतारयन्ति, तदा किं भक्ता तद्देवाश्रवाः सन्तो विवेकविकला: ? । अथवा किमनया कथया ? सर्वं सदेवमनुजासुरं विषयविडम्बितं कामदेवकारागारस्थं कामिनीकिङ्करं तावत् पूर्वं श्रवणशीताशनं उच्यते वचनम् । स्वामी तं श्रीपार्श्व उदासीनतया तत्कमठप्रतिबोधवचनं स्वभावमृदूक्त्वा तदग्निदग्धतद्भुजगसद्गतिकारणं धर्ममुपदिश्य च पुरस्थान् जनान् अमृततरङ्गिण्या दृशा क्षीरास्त्रवमुचा वाचा च विलोकयन् जल्पन् सुखासनासीनो यावदास्ते तावदेके सभापतयो भूत्वा पक्षं स्वीकृत्य तर्कसम्पर्कं वृन्दारकवाण्या आरेकाकन्दकृपाण्या उपन्यासाभ्यासेन स्पृशन्ति स्म । केचनाऽपि च सभ्या भूयः शृण्वन्ति स्म । “भो ! भो ! तत्त्वातत्त्वविचारचतुरा ! अनातुरा ! हिंसारसाव्यापृताशयाः ! शुभाशयाः ! विशुद्धवृषवासना ! नव्यनव्या ! महाभव्या ! हृदयदेवालये भावनाप्रदीपे अस्मद्वचनं सुरचनं मूलनायकतां नेतव्यं यदि चेतनाः स्थ यूयम् । 'नद्यास्तीरेऽद्य प्रगे गुडशकटमुत्कटपर्यस्तं धावत धावत डिम्भका' इत्यादि विप्रतारकपुरुषवचनश्रवणात् प्रवर्तमाना विप्रलम्भभाजो जायन्ते तथेदमस्माकं वचनं नाऽङ्गीकार्यम् । यूयमपि श्रोतारस्तादृशा न स्थ! वयमपि वक्तारो न तादृशाः स्मः । अन्यच्च अन्येषां खण्डदृष्टीनां, सर्वज्ञवचनादृते । वचनेषु न विश्वासो विधेयो मोक्षमिच्छुना ॥ १ ॥ अत्रान्तरे प्रत्यूहकारः पक्षे सम्प्रति चकाराऽऽक्षेपं "हं हो ! सुविचारसभाशृङ्गार! उदारवचनव्यापार ! कृतप्रत्यक्षपरोक्षनामप्रमाणयुगलीस्वीकार ! यत्त्वया पक्षोऽयं स्वीकृत: कृतज्ञ हे ! श्रीसर्ववेदी स्यात् देवाधिदेवः सर्ववेदित्वात्, परमात्मवत् । तस्मादयं प्रपञ्चः सर्वः । किं हे सर्वग्रन्थपन्थपथिकदेवाः । पञ्च पूर्वं तदादिष्टानि दर्शनानि, पञ्च तदाश्रवा दर्शनिनः, पञ्च तदुक्तानि पञ्च शास्त्राणि । " मूलवाग्मी प्राह - “भो ! आन्तरमयं चक्षुः समुन्मील्य अनाद्यविद्यातिमिरभरध्वस्ततेजः प्रसरं नवप्रबोधकृतमद्वाक्यदिनकरोदयस्पृष्टं विलोक्य अनेन धूर्तपञ्चकेनालम् । एतावतैव प्राप्ताऽस्माभिर्जयश्रीः तावकीनपञ्चकप्रपञ्चनेन धृतोऽसि रे बाहौ मया । सभ्याध्यक्षं क्वगमिष्यसि ? । पदमेकमपि वक्तुं न शक्तः भारती भूरिप्रसादप्रभावेण त्वं मया वचननिगडेन निविडं निबद्धोऽसि । विचारय, यदि ते पञ्च देवाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy