SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 46 हरिणा तदा लोकैरिति कथितं देवो देवेन साघु ययौ । पुनरिहैव मूलस्थानं तस्थौ । अतोऽस्माकं मूलस्थाननामा देव एष जातः । शङ्केश्वरे यदधुना बिम्बं पूज्यते पुण्यवद्भिः एतत् स्तम्भनायकबिम्बपरावर्तेन हरेरुपरोधेन धरणेन्द्रेण स्वदेवालयात् मुक्तं ज्ञातव्यं तत्त्ववेदिभिः नात्र भ्रान्तिर्विचार्या । "जोणीपाहुडभणिओ संकेओ एस मे नेयो।" इतीदमस्ति मयोक्तं तत्त्वं पुनः केवलिनो विदन्ति । सूरिगणा भूरिगुणा, क्षन्तव्यं दुर्वचो मम । उत्सूत्रपातभीतस्य, मिथ्यादुःकृतमस्तु मे ॥ १ ॥ नारायणप्रबन्धोऽयं सप्तविंशतिमोऽजनि । गभीरे चार्थगहने, स्तम्भेशचरितेऽन्तरा ॥ २ ॥ ***** (प्रबन्धः २८) यः परमात्मा परं ज्योतिः, परमः परमेष्ठिनाम् । आदित्यवर्णस्तमसः, पुरस्ताद् यः पुनातु वः ॥ १ ॥ सुराष्ट्रादेशमध्ये द्वारमत्यां दग्धायां रामकृष्णयोर्निर्गतयोर्वारकादाघात जीवमानयोः पुनरब्धिनीरेण द्वादशयोजनप्रमाणायां नगरभूमौ प्लावितायां एकार्णवीभूते भूतले नगरमध्यस्थितराजप्रासादस्थो न जज्वाल देवोऽयं, पयसाऽपि च प्लावितो नासौ देवः । तत्र समये वरुणः प्रतीचीपतिस्तं देवं गृहीत्वा स्वगेहे देवालये एकं दिनं अपूजयत् । पुनरपि देवादेशाद् देवालयाद् द्वारकापुरीमध्यगते कृष्णकारिते प्रासादे जलान्तः स्वेन करेण मुक्तः वरुणेन । अपि च एनमेव बिम्बं पूर्व एकादशलक्षाणि वर्षाणां वरुणः पूजयामास । अन्यच्च अशीतिसहस्राणि वर्षाणां तक्षकोऽचितवान् एनं देवम् । षष्टिसहस्रवर्षाणि पद्मावती आराधयामास च । दशसहस्राधिकानि षष्टिवर्षसहस्राणि सुस्थितलवणाधिपतिः समुद्रस्य नाथः पूजयति स्म परमेश्वरं चैनम् । किं बहुना ? सकलपाताललोके हटकेश्वरीकलानाथः हटकेश्वरनाम लिङ्गं चतुरशीतिपत्तनेषु नागमते प्रसिद्धं तत्रापि देवोऽयं समाराधितो नागलोकनिवासिभिः इत्थमनेके पूजाप्रबन्धाश्चास्य प्रभोः । न देयं दूषण मह्यं, कदा कोऽपि विपर्ययः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy