________________
तुरगमारुरोह पश्चात् । अथ स राजा एकं नृपं तृषार्तं भूपतितं दृष्ट्वा समीपस्थस पल्लययनाश्वं च स्वभावोपकृतिबुद्ध्या जलेन छायया वातव्यजनादिना सज्जीकृत्य स्वगृहं नीत्वा मैत्री चकार । तावत्यन्तरे समेतं तस्य सैन्यम् । विराटदेशाधिपोऽयं जने विश्रुतं(तः) स प्रद्युम्नो नाम राजा । विराटेश्वर(:) स्वगृहं प्रति ययौ । महोपरोधेन हरिश्चन्द्रं विसर्येति चोक्त्वा राजन् ! सखे ! हरिश्चन्द्र ! तवानृणीभवितुं नास्म्यलम् । परं अस्मद्देशे झाडमण्डलमध्ये रत्नापुरभूमण्डलबद्धगन्धमादनगिरौ गजकुण्डसिद्धायतने सर्वार्थसिद्धिनामानं देवं वन्दापयामि त्वं यदि एष्यसि । तथैव चक्रे राजा । ववन्दे च तं देवम् । तत्र स षण्मासांस्तस्थौ नित्यकृतलक्षव्ययधनपूजनः । प्रसन्नो देवः । स वरं ददौ "यत्ते समीहितं तद्दास्ये तुभ्यम्" । राजोवाच- नाथ ! सत्यं मे हितं ममान्तःकरणात् प्राणान्तेऽपि नायातु। तत् सत्यं इति वरं प्राप्य स्वे गृहे गत्वा चिरं चिक्रीड। अपि च स एकदा राजा 'नृपचर्यया वने गतः विपरीतशिक्षिताश्वेन वने क्षिप्तो भूमौ पारापतपल्लीसमीपे चौरवटे । तत्र च रत्ननिधानं एकं कूपं ददर्श । स च राजा परिभ्रमन् एतावति क्षणे चौरपदप्रमाणेन तत्र वाहरा समेता । “चौरोऽयं" भणित्वा स राजा तत्रस्थो बद्धः सज्जनपुरेशस्य नरदेवनाम्नः पदमूले क्षिप्तः । ततः स राजा नरदेवेन पृष्टः किमपि नोत्तरं ददौ । राज्ञा खेदं गतेन चारक्षकपाश्र्वात् सूलायां प्रोतव्योऽयं वधार्थमित्यादिष्टः । स राजा हरिश्चन्द्रो न म्रियते केनाप्युपायेन। तथाकृतेऽपि तमेकं देवं
(प्रबन्धः १८) ___ मं पूजानन्तरं देववाणी जाता..भो नृप ! शृणु ! असौ मन्त्रिसूः परभवे भूनागमेकमवधत् दण्डाग्रेण क्रीडया । तत्पातकेन मारिनामा कसरोगः सञ्जातः । ततो राज्ञोक्तं-हे जिनेन्द्र ! अद्य प्रभृति मया प्राणिप्राणातिपातो न कार्यः । विशेषेण चाऽनाथानां कृते मया स्वप्राणा अपि दातव्या इति व्रतं मे । इति स्तुत्वा जगाम राजा देवालयात् स्वगृहं । एकदा च गु(ग)रुडचु(च)ञ्चपुटवोट्यमानं वध्यशिलायां यमदंष्ट्राभिधानायां पातितं पातालदाकृष्य स गच्छन् राजऽपश्यत् नागेन्द्रम् । राज्ञाऽपि च स्वशरीरं मांसपणं कृत्वा स नागनाथो मोचितः । दिव्यवाण्या स्तुतिर्जाता १. ५६ तमं पत्रं नास्ति अतः पाठः खण्डितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org