SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ श्री स्तम्भनाधीशप्रबंधसंग्रहः || ( प्रबन्धः १ ) सर्वभीतिविनाशार्थं, सर्वसौख्यैककारणाम् । स्तम्भनेन्द्रमुखं पश्ये(पश्येत् ), सर्वदा सर्वतोमुखम् ॥ १ ॥ शासनाचारसूरीणां वैपक्ष्यं यत्र जायते । सूरिश्रीमेरुतुङ्गस्य, मिथ्यादुःकृतमस्तु मे ॥ ॥२ ॥ मदीयं वितथं वाक्यं सत्यं वा वेत्ति कोऽपि किम् । प्रायः प्रमादिनां यस्माद्, दुःषमायां वचोऽनृतम् || ३ || अपि च शङ्खिनीमतात् दूसमद( ग ? )ण्डिकाबन्धात् भैरवीचरितात् विद्याकल्पात् मन्त्रसारात् श्रीबिन्दुसारचूलाया योनिप्राभृतकर्णिकाया देवमहिमसागरात् प्राभृतपटलात् श्रीसुगुरुमुखात् बहुश्रुतादेशात् श्रीपद्मावतीसमाराधनप्रभावात् श्रीभारतीप्रसादात् अन्येषामपि च वार्ताविदुषां सान्निध्याद् अस्यैव श्रीस्तम्भनाय - कस्यानुप्रे (ग्र)हात् स्वयं समुद्भूतनिबिडतरभक्ति भरसमुल्लसितान्त: करणानाहतवचोविलासात् कुण्ठकु(क?) ण्ठोऽपि जडजिह्वोऽपि अमुखरमुखोऽपि तलिनप्रज्ञोऽपि अनतिशयवचनरचनोऽपि अकवियश (श: ? ) स्पृहोऽपि श्रीस्तम्भनेन्द्रप्रबन्धान् इमान् द्वात्रिंशत्प्रमितान् वक्ति । सूरिश्रीमेरुतुङ्गेण, वादिहव्यकृशानुना । वादिवेश्याभुजङ्गेन, श्वेतवस्त्रां हिरेणुना || सभाया(यां) बाहुमुद्धृत्य जिनशासनवैरिणः । एकया वेलया सर्वे, व्रियन्ते जयवादिनः ॥ येन सूरि श्रीमेरुतुङ्गेणेत्थं चतुर्दिक्षु गलगर्जिः प्रतन्यते स्वदर्शनप्रसादात् । अन्यच्चाहं चतुर्विधस्य श्रीसङ्गस्य कृतनतिर्बद्धाञ्जलि वार्त (?) सर्वथा निर्जरार्थं देवस्तुतिवाक्यमात्रं अभिनवग्रन्थारम्भं चैनं श्रम्यामि कुब्ज इव नृत्यं वितन्वन् विद्वद्भिरशेषैरुपहास्यमानोऽपि टुण्ट इव कण्डकविमोचनक्रीडादुर्ललितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy