________________
गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ॥ निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम्॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य। यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ।। यद्वत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत्।। यद्वत्तुरगः सत्स्वप्याभरणविभूषणेष्वनभिषक्तः। तद्वदुपग्रहवानपि न संगमुपयाति निर्ग्रन्थः।।
-प्रशमरतिप्रकरण "उक्तं च वाचकमुख्यैरुमास्वातिपादैः - कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते। यद् दीयते कृपार्थादनुकम्पा तद् भवेद् दानम्।। अभ्युदये व्यसने वा यत् किञ्चिद् दीयते सहायार्थम्। तत्सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय॥ नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद् दीयते यशोऽथ गर्वेण तु तद् भवेद् दानम्॥ हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः। यद् दीयते हि तेषां तज्जानीयादधर्माय॥
-स्थानांगवृत्ति उमास्वातिनी शैली ओजस्वी, उर्जस्वी, अने अर्थ-गौरवी जरूर छे पण सुललित नथी; एमनु गुम्फन वैराग्यवान सैध्धान्तिक विद्वानने शोभे तेवू जरूर छे, ___ पण तेमां कविहृदयनी अनुपस्थिति छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org