________________
(११)
"सुव्वत्तं' पञ्चधा। सुवार्ता शोभनकथा १। सुव्यक्ता सुप्रकटा २। सुव्याप्ता सुक्रान्ता ३ । सुव्यात्ता सुप्रसारिता ४। शुल्बत्रा ताम्ररक्षक: ५।
"मयणाही' पञ्चधा। मृगनाभी १ । मदनाभी कामाभयः । मदनाधिः कामचिन्ता ३। मृतनाभिर्मृततुन्दं ४। मदनाही कामसौ ५।
___ 'सामलया' पञ्चार्थः । श्यामलता कृष्णलता कृष्णता वा १। सामलका आमलकसहिता २। सामलया देवविशेषप्रयोगा नीतिप्रयोगा वा ३ । सामलता प्रसिद्धा ४। सा मलदा मलं ददाति खण्डयति वा ५॥
सावय सद्दो पंचसु तब्भेओ सच्छरायणो पाओ। तह सुअ सरोअआ वि हु नायव्वा सत्थकुसलेहिं॥
प्राकृते 'सावयः' पञ्चार्थः। श्वापदोऽरण्यजीवः १। श्रावको जिनभक्तः श्रोता वा २। शापद आक्रोशदाता ३। सापगः सदापानीयो देशः सनदिको वा ४ ॥
'सच्छरायणः 'पञ्चधा। साप्सरोगण: -अप्सरोगणसहितः १। स्वाक्षरोगणः स्वकेन्द्रियदीपनः २। साक्षरायनः पण्डितगमन: ३। स्वच्छरदनो-स्वच्छदन्तसमूहः ४ । स्पप्सरायनं देवमार्गः ५॥
'पायः' पञ्चधा। प्रायो बाहुल्यं १। पादोंऽहिश्चतुर्थांशो वा २। पात: पतनं ३। पाक: पचनमन्नादेः ४। पापः पाप्मा नरः ५॥
'सुअ' पञ्चधा। यथा-सुतः पुत्रः १। शुक: कीरादिः २ । श्रुतं शास्त्रं कर्णाभ्यां पूर्वश्रवणं ३। शुक् शोकः ४। सुदः सुष्ठ दाता ५॥
__'सरोअअ' पञ्चधा। सरोजकं कमलं १। सरोगो रोगी तडाकगो वा २। सरोदयो नाडीवायुप्रचारः ३ । सरोपकं काण्डजलं ४ । सरोचको चिकरः पदार्थः ५ ॥
इति प्राकृतशब्दाः संस्कृते नानार्थाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org