________________
१०२
समयसिद्धाः ते कालसिद्धा नाम। ये अष्टविधकर्म्मविनिर्मुक्ता (:) सिद्धि प्राप्ता: ते भावसिद्धा नाम । एते त्रिविधा (:) सिद्धाः ॥
|
(१६) द्वादश सिद्धस्यानुयोगद्वाराणि । कतमानि ? । कालो (ल: ) । गतिः । लिङ्गः (ङ्गम्) तीर्थ (म्) । चारित्र : (त्रं) । प्रत्येकबुद्ध: । बोधितबुद्धः । ज्ञानावगाहनं (ज्ञानम् । अवगाहना ।) अनांतरं (अन्तरं) । संख्या अल्पबहुत्वतश्चेति (त्वं चेति ) । एतानि द्वादश सिद्धस्यानुयोगद्वाराणि ||
(१७) अष्टौ सिद्धगुणाः । कतमा: ? । अनन्तदर्शनं । अनन्तज्ञानं । अनन्तवीर्यं । अनन्तसुखं । सूक्ष्मत्वं । अनन्तावगाहः । अग (गु) रुलहु (घु) त्वं । अव्याबाधश्चेति । एते अष्टगुणाः ॥
1
(१८) द्विविधा ( : ) सिद्धा: । कतमा ? | मोहान्तराय [ज्ञान] दर्शनावरणीयक्षयात् कैवल्यप्राप्तिसिद्धाः | आयुर्नामगोत्रवेदनीयक्षयात् स्वातकसिद्धाश्चेति ॥ तत्र मोहो नाम द्विविधः । चारित्रमाह (हो) दर्शनमोहश्चेति । चरित्रमोहक्षयात् (द्) वीतरागो भवति । दर्शनमोहक्षयात् सम्यग्दृष्टिर्भवति । अन्तरायक्षया ((द्) दिव्यानि दानलाभभोगोपभोगवीर्याण्युपद्यन्ते । ज्ञानावरणीय क्षयात् सर्व्वज्ञो भवति । दर्शनावरणीयक्षयात् सर्व्वदर्शी भवति । आयुष्यकर्म्मक्षयात् (द्) जन्ममरणव्याधिविनिर्मुक्तो भवति । नामकर्म्मक्षयात् (द्) औदारिकवैक्रियाहारकतैजसककार्मणशरीरं (र) तत्त्वविनिर्मुक्तो भवति । आकास (श) - वदमूर्तश्चक्षुरग्राही ज्योजावघ ( ? ) रूपो भवति । गोत्रकर्मक्षयात् सदेवासुरमनुष्यलोकस्योत्तमस्थानं प्राप्नोति । वेदनीयकर्मक्षयात् सुखदुःखाभ्यां विनिर्मुक्तो भवति । केवलमव्याबाधं सम्प्राप्तो भवति । लोकाग्रे प्रतिष्ठितो अदेही शाश्वतो वक्तो ( मुक्तत्रे) अमरो अजरो निरंजनो भवति । एते षट् (? द्विविधाः सिद्धा भवन्ति ॥
इत्यर्हत्प्रवचने पञ्चमोऽध्याय समाप्तः ॥
मङ्गलं महाश्रीः ॥ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org