________________ स्नातस्या-प्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे रूपालोकन-विस्मया-हृतरस-धान्त्या-आमच्चक्षुषा. उन्मृष्टं नयनप्रभा-धवलितं क्षीरोदका-शंकया वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्धमानो जिनः. .1. हंसां-साहत-पद्मरेणु-कपिश-क्षीरार्ण-वाम्भो-भृतैः कुम्भ-रप्सरसां पयोधर-भर-प्रस्पर्द्धिभिः काञ्चनैः. येषां मन्दर-रत्नशैल-शिखरे जन्माभिषेकः कृतः सर्वैः सर्व-सुरा-सुरेश्वर-गणैस्तेषां नतोहं क्रमान्. .2. अर्हद्वक्त्र-प्रसूतं गणधर-रचितं द्वादशाङ्गं विशालं चित्रं बह्वर्थ-युक्तं मुनिगण-वृषभैर्धारितं बुद्धिमदिः. मोक्षाग्र-द्वारभूतं व्रत-चरण-फलं जेयभाव-प्रदीपं भक्त्या नित्यं प्रपद्ये-श्रुतमह-मखिलं सर्व-लोकैक-सारम्. .3. निष्पक-व्योम-नील-द्युति-मलस-दृशं बालचन्द्राभ-दंष्ट्र मतं घण्टा-रवेण प्रसृत-मदजलं पूरयन्तं समन्तात्. आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्व-कार्येषु सिद्धिम्. .4. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org