SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥ चिन्तामणि-सारणिका ॥ ॥ महाकारुणिक - बोधिसत्त्व • दशबल - विरचिता ॥ ॥ ॐ नमो श्रीगणेशाय नमः ॥ ॥ ॐ नमः सूर्याय ॥ नमोऽस्तु ते पार्वति पङ्गजानने प्रियंवदे वन्द्यमुनीन्द्रवन्दिते । दयापरे सुन्दरि शङ्करप्रिये कुरु प्रसादं मम देवि शारदे ॥ १ ॥ पुराचार्यैरेतैर्न खलु विहिताः स्वल्पविधिना निजग्रन्थे ह्यन्तः स्फुटतिथिभयोगप्रभृतयः । अतः पश्यन् विश्वं गणितगहनोद्विग्नमधुना - नमस्कृत्यार्केन्दू दिशति तदुपायं दशबलः ॥ २ ॥ एकक्षणात् कृतपरिस्फुटलक्षसङ्ख्य नक्षत्रयोगतिथिबन्धुरसंविधानाम् । पीयूषवृष्टिमिव हृष्ट(ष्टि)करीमजस्रं । मत्सारणी श्रुतिपुटैः कृतिनः पिबन्तु ॥ ३ ॥ . [ अथ तिथिप्रकरणम् ॥ १ ॥] तिथिप्रभृतिविज्ञानात् सम्यक् यात्रादि सिद्धयति । अतस्तत्सारणी जूमश्चिन्तामणिमिमां स्फुटाम् ॥ ४ ॥ चत्वारिंशत्सहाष्टाभिस्तिथीनांशे चतुःशतैः (४४८)। चतुःपञ्चाशता युक्तं नक्षत्राणां शतत्रयम् (३५४) ॥ ५ ॥ चत्वारिंशद्विनैकेन चतुर्भिरधिका शतैः (४३९) । योगानां पद्धतिः सैषा स्वसङ्ख्यातुल्यकोष्टकैः ।। ६ ॥ वारनाडीविनाडीभिरधोऽधः सूचितक्रमैः । तिथिनक्षत्रयोगांनां पिण्डाष्टाविंशतिनिधा ॥ ७ ॥
SR No.269386
Book TitleCintamani Sarnika Of Dasabala
Original Sutra AuthorN/A
AuthorDharmanand Kosambi
PublisherD D Kosambi
Publication Year
Total Pages21
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy