SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १४ चिन्तामणि- सारणिका सर्वजित् सर्वधारी च विरोधी विकृतः खरः । नन्दनो विजयश्चैत्र जया मन्मथदुर्मुखौ || ५ || हेमलम्बी विलम्बश्च विकारी शार्वरी प्लवः । शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥ ६ ॥ प्लवङ्गः कीलकः सौम्यः साधारणो विरोधकृत् । परिधावी प्रमाथी च आनन्दो राक्षसोऽनलः ॥ ७ ॥ पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती । दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधनः क्षयः ॥ ८ ॥ तिथिनक्षत्रयोगानां सारणीममृ-च (?) काम् । प्राप्येतामन्त्य (त्य)जं पश्चात्तापं को वा न मुञ्चतु ॥ ९ ॥ अहो स्वार्थस्य सिद्धार्थाः प्रारम्भाः सर्वदेहिनाम् । अस्माकं तु जनं प्राप्य प्रीतिपीयूषवृष्टये ॥ १० ॥ कृतेन ग्रन्थरत्नेन मम मण्डल (य) तो महीम् । विद्वद्विपणिषु ब्रूत कति सन्ति परीक्षकाः ॥ ११ ॥ यावत् क्षितौ क्षितिपतिः क्षितिरन्तरिक्षं धत्तेऽन्तरिक्षममृतांशुमयं च लक्ष्म । तावत् प्रमोदजननी हृदि सज्जनाना मेषास्पदं दशबलस्य कृतिः करोतु ॥ १२ ॥ भाविर्भावकरः समग्रकरणो भूत्वा तिथीनां गणान् बिभ्राणः प्रतिराहमर्थिषु बहूधा (द्धा) राश्च योगैमुँदा । स्वर्णाद्यस्फुटकोष्टकप्रभृतिभिः प्रस्तारितोऽर्थैर्मया पञ्चाङ्गस्तिथिरेष सारणि मया मूर्तः प्रसादोऽर्पितः ॥ १३ ॥ वहति गणितगर्वं गोलकज्ञः कदाचि यदि मदनपरोऽसौ मुक्तसौजन्यवर्त्मा । जगदुपकृतियो गाजि (जि) त्वरेऽस्मत्प्रबन्धैः (न्धे) प्रथम (य) तु निजविद्यागर्वितो दूषणानि ॥ १४ ॥
SR No.269386
Book TitleCintamani Sarnika Of Dasabala
Original Sutra AuthorN/A
AuthorDharmanand Kosambi
PublisherD D Kosambi
Publication Year
Total Pages21
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy