SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ दशबल - कृता ११ पिण्डादि नयने व्योम गजाक्षीण्याब्धिसिन्धवः (२, ०,२८,४४) । ध्रुवे भानां यमौ काष्ठा वस्वक्षाणि फणिद्विकाः (२,१०,५८,२८)॥१३ वारादिरेकधिष्ण्यस्य हिमदीधितिरम्बरम् । द्विवेदा गुणभूतानि मूच्र्च्छनाः समुदाहृताः (१, ०, ४२, ५३, २१) ॥ १४ ॥ पिण्डादि रेकधिष्ण्यस्य शशिक्ष्माविधुसिन्धवः । रसश्रोताश्विनी (स्रोतस्विनी) नाथास्तुहिनांशुशिलीमुखाः (१, १, ४२, ४६ ; ५१) ॥ १५ ॥ योगस्येकस्य वारादिर्गगनं रसमार्गणाः । गगनेचरचक्षूंषि मूर्छना गुणसिन्धवः (०,५६,२९,२१,४३) पिण्डादिरेकयोगस्य पूर्ण हयशिलीमुखाः । सिद्धा रन्ध्राणि गोचन्द्रा इति भोगाः स्वकाः स्वकाः (०,५७, २४,९,१९) ॥ १७ ॥ भध्रुवस्वष्टमासान्ते विकलं पृथगन्वितम् । स्वाब्धीभभाग(८४)बाणाग्निभागाम्यां (३५) तद्विशोधयेत् ॥ १८ ॥ वारपिण्डकनाडीभ्यो धिष्ण्यान्ते ध्रुवको भवेत् । योगध्रुवस्य विकलं निजाद्रीन्दु (१७) लवोनितम् ॥ १९॥ स्वाग्निद्व्यंशोनं (२३)मन्यत्र वारपिण्डघटीगणात् । शोधयेदवशिष्टं तु योगान्ते ध्रुवको भवेत् ॥ २० ॥ पिण्डाभावकला प्रोक्ता उत्कृष्टः पिण्डकध्रुवः । चतुस्त्रिद्वयेकनाडीषु गम्यासु च गतासु च ॥ २१ ॥ ध्रुवको धिष्ण्ययोगानां पिण्डाभावात्मकः स्मृतः । भूयिष्ठविकलेनापि पिण्डाभावात्मकस्तिथेः ॥ २२ ॥ सिन्धुरद्विमितैर्धिष्ण्ये नाड्यस्तु तुरगान्धयः (४७, ३०)। पिण्डानां सदलोपेतास्ता एव धनसंज्ञिकाः ॥ २३ ॥
SR No.269386
Book TitleCintamani Sarnika Of Dasabala
Original Sutra AuthorN/A
AuthorDharmanand Kosambi
PublisherD D Kosambi
Publication Year
Total Pages21
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy