SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ चिन्तामणि • सारणिका नीताः स्पष्टत्वमथवा योग्याः [स्युः] तिथिभयोगयोः । विदित्वेत्थं तिथेः स्पष्टां सारि(र)णी निखिलो जनः ॥ ६० ॥ सूर्याचन्द्रमसोर्लोकान् दीर्घमासाद्य मोदय(ते) । कोष्टबद्धावुभौ यस्मात् सूर्याचन्द्रौ परिस्फुटौ ॥ ६१ ॥ एतां सम्यग्दशबलकृतां सारणीमर्थसारां ज्ञानज्योतिःकुमुदकलिकां कर्णयोर्ये वहन्ति । ते भुक्ते (क्त्वे)न्दुद्युमणिवसती योगिनामप्यगम्ये आक्रीडन्ते त्रिदशरमणीतुङ्गपीनस्तनेषु ॥ ६२ ॥ इति महाकारुणिक-बोधिसत्त्वदशबल-विरचितायाम् चिन्तामणौ सारणिकायां तिथिप्रकरणं प्रथमं समाप्तम् ॥ [ अथ नक्षत्रप्रकरणम् ॥ २॥] युगणः पृथगष्टिनां (१६) काक्षविश्वाप्तवर्जितः (१३५९)। नक्षत्रौषः ससिद्धाढ्यस्तष्टस्तुरगवाहुभिः (२७) ॥ १॥ अवशिष्टं भवेद्विण्यम् (१) अश्विन्यादियथाक्रमम् । भानां वारादयो वेदाः कुम्भिनः सशरास्त्रयः (२,४,५८,३)॥२॥ पिण्डाद्या भानि गोबाणा नयने क्षेपकौः(के)स्थिरौः(२)(२७,५९,२)। ज्यायान् भ-परिवर्तः स्यादरामश्रुतिपावकैः (३४३१) ॥ ३ ॥ वारादौ षड्भुजाक्षाणि स्वर्गिणः खसुधाकराः (६, ५२, ३३, १०)। पिण्डादयोऽभ्रमभ्रं च काष्ठाविशिष(ख)बाहवः (०,०,१०,२५)॥४॥ मध्यमः परिवर्तोऽयं चतुःपञ्चत्रिभिः (३५४) स्मृतः । वारादयः शशी विश्वे लोचने वसुसिन्धवः (१,१३,२,४८)॥५॥ पिण्डाद्या गगनं व्योमखगुणाः शैलपाणयः (०,०,३०,२७)। कनिष्ठः परिवर्तस्तु शिलीमुखचतुःकरैः (२४५) ॥ ६ ॥ वाराद्या द्वौ शराक्षाणि मुनयः करसायकाः (२,५५,७,५२) । पिण्डाद्या भानि बाणाक्षाण्यङ्गरामानभःकराः (२७) ॥ ७ ॥ परिवर्तो महाज्येष्ठच्छिद्रानलनवग्रहैः (९९३९)। वारादयोऽप्सराः सिद्धाः षट्नयो मुनिवह्वयः ॥ ८ ॥
SR No.269386
Book TitleCintamani Sarnika Of Dasabala
Original Sutra AuthorN/A
AuthorDharmanand Kosambi
PublisherD D Kosambi
Publication Year
Total Pages21
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy