SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ભારતીય તત્વજ્ઞાન ટિપ્પણ १. सूर्य चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च थर्मणा। .. अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः। २. सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥६॥ 3. ..आत्मा निष्क्रामति चक्षुष्टो वा मूर्नो वाऽन्येप्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति स विज्ञानो भवति सविज्ञानमेवाचवक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ।।२।। ४. तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥३॥ ५. हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । . यथा च मरणं प्राप्य आत्मा भवति गौतम ||६|| योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ।।७।। द्वितीये अध्याये द्वितीया वल्ली ६. ...यथाकारी यथाचारी तथा भवति, साधुकारी साधुर्भवति, पापकारी पापी भवति, पुण्य: पुण्येन कर्मणा भवति पाप: पापेन ॥ अथो खल्वाहुः काममय एवायं पुरुष इति, . स यथाकामो भवति तत्क्रतुर्भवति, यत्क्रतुर्भवति तत्कर्म कुरुते, यत्कर्म कुरुते . तदभिसंपद्यते ॥५॥ .७. तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापोरन् ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापोरन् श्वयोनि वा सूकरयोनि वा चाण्डालयोनि वा। ८. ...स इह कीटो वा पतुको वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायते यथाकर्म यथाविद्यम् । ९. जातस्य हि ध्रुवो मृत्युधुवं जन्म मृतस्य च । १०.अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः। . ११. वासांसि जीर्णानि यथा विहाय नवानि गृणाति नरोऽपसणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।। १२. बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। १.३.न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । १४. शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249536
Book TitleKarm ane Punarjanma
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherZ_Bharatiya_Tattva_gyan_001201.pdf
Publication Year1998
Total Pages28
LanguageGujarati
ClassificationArticle & Philosophy
File Size605 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy