________________
ગિરનારના એક નવપ્રસિદ્ધ પ્રશસ્તિ લેખ પર દષ્ટિપાત
१८
अभयकुमाराभिख्यस्तृतीयोऽजनि नंदनः । यो दधे मानसं धर्मश्रद्धा संबंधबंधुरम् ।।८।। धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया । पुत्रौ च खेढाभिध-गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥९॥ किंच। यौ कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चस्तरां,
श्रीशजय-रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं,
लेभाते सुचिराय संघपतिरित्याख्यां स्फुटां भूतले ॥१०॥ आद्यस्य जज्ञे किल षींवदेवी नाम्ना कलत्रं सुविवेकपात्रम् । तथा सुता जेहड-हेमचंद्र-कुमारपालाभिध-पासदेवाः ॥११॥ अभवद् गोसलसाधोर्गुणदेवीति वल्लभा । नंदनो हरिचंद्राख्यो देमतीति च पुत्रिका ||१२|| जयदेवस्य तु गृहिणी जाल्हणदेवीति संज्ञिता जज्ञे । पुत्रस्तु वीरदेवो देवकुमारश्च हालूश्च ॥१३॥ शुभशीलशीलनपरा अभवंस्तेषामिमाः सर्मिण्यः । विजयसिरी-देवसिरी-हरसिणिसंज्ञा यथासंख्यम् ॥१४|| एवं कुटुंबसमुदय उज्ज्वलवृषविहितवासनाप्रचयः । सुगुरोः गुणगणसुगुरोः सुश्राव सुदेशनामेवम् ॥१५।। (આ પછી આવતો ભાગ જરૂરી ન હોઈ ઉદ્ધત કર્યો નથી.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org