________________
પ્રદ્યુમ્નવિજય ગણિ
Nirgrantha
આ વિજ્ઞપ્તિની પ્રત અમદાવાદ દેવસાના પાડામાં, શ્રી વિમલગચ્છ જૈન ઉપાશ્રયમાં પૂ પં શ્રી યાવિમલજીગણીના હસ્તલિખિત જ્ઞાનભંડારની છે. પ્રતિપ્રાંતે જે સંવત્ ૧૭૧૭ (ઈ. સ. ૧૬૬૧) આપેલ છે તે પ્રતિ-લેખનની મિતિ છે. (મૂળકૃતિ એ મિતિથી ૫૦-૬૦ વર્ષ પૂર્વની હશે.) સમસ્ત કૃતિ આસ્વાદ્ય અને અંતરને दंदोजे छे.
१०
पाठा :
Jain Education International
( उपजातिवृत्तम्)
आनम्रकम्रामर पूर्वदेवः, स वः श्रियं यच्छतु मारुदेवः । अशिश्रियद् यच्चरणारविन्द - मिन्दिन्दिरालीव पयोधिपुत्री || १ ||
त्वं वेत्सि सर्व सचराचरं जगद्, ज्ञानेन विश्वत्रितयावलोकिना । * त्वत् साक्षिकं देव ! तथाऽपि वक्ष्ये, शुभाशुभं यत् विहितं मया तत् ॥ २ ॥
संसारचक्रे भ्रमता चिरेण, प्राप्तो मया मर्त्यभवः कथंचित् । तथापि दुर्बुद्धिरहं न कुर्वे, धर्म यथा स्यादमृतोपलब्धिः ||३||
प्रभो ! मया स्वीय गुरोर्मुखाम्बुजात्, यमानुरीकृत्य तथा न रक्षिता । अवश्यमेवास्यकुकर्मणः फलं, भोक्तव्यमस्तीतिभयं न जातम् ||४||
पूर्वं मया लक्षनृणां समक्षं कक्षीकृतं यच्चरणं विरागात् । किंचित् प्रमादाचरणेन पञ्चान्मूढेन सर्वं कलुषीकृतं तत् ॥५॥ ( उपेन्द्रवज्रावृत्तम्)
पुरा परापाय विमर्शपूर्वकं मया कृता यद् हृदि कोटिकल्पना । दुरन्तपापं समुपार्जितं तया, निरर्थकं तन्नरकाधिकारिणा ||६||
मया नृणां धर्मकथासु नित्य, मकारि दृग्भ्योऽम्बुकणप्रवाहः । अत्यन्त निर्वेदरसस्य पोषणात् परं न जातं मम कोमलं मनः ||७||
( पञ्चमहाव्रता: )
मयाधिक प्राणित लोभतः कृतो, निरागसां प्राणभृतां व्यपायः । न ज्ञातमेतत् किल यादृगेव वितीर्यते तादृशमेव लभ्यम् ||८||
अन्योन्यदुर्वाक्यविभाषणेन, मयार्जितं संसृतिहेतुभूतम् । पापं महत्तस्य विनाशकर्ता, स्वामिंस्त्वदीया चरणद्वयी मे ||९||
* तेनापि ते नाथ ! पुरो ब्रबीमि । मयाकृतं कर्म शुभाशुभं यत् ॥ ३॥ धर्मं यथास्यादपुनर्भवाप्तिः || ३||
For Private & Personal Use Only
www.jainelibrary.org