SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લેક મહામાત્ય વરતુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૧૭ भवति विभवे पुंसां चक्षुस्तृतीयमिति श्रुति न तु कुमतयस्ते वीक्षन्ते सति त्रितये दृशाम् । अयमिह परं मन्त्री नेत्रद्वयेऽपि करस्थिता मलकफलकप्रायां लोकद्वयीमवलोकते ॥१२॥ वस्तुपाल ! सदा हस्ते सत्यप्यमृतवर्षिणि । वैरिवर्गः 'सदाहस्ते यत् तदेतदिहाद्भुतम् ।। १३ ॥ आकर्षनसिदण्डमेव न पुनः पादं विमुञ्चन्निषु श्रेणीमेव न मानितां विनमयन् धन्वैव नोच्चैः शिरः। कम्पं दन्तपिधानमेव न मन: संख्ये दधानश्चम कारं कस्य चकार नैव सचिवस्तोमैकवास्तोष्पतिः ॥१४॥ प्रासादास्तव वस्तुपाल! त इमे तन्वन्ति चेतः सतां सानन्दं शशिशेखरादिशिखरग्रामाभिरामश्रियः। येषां काञ्चनकुम्भसम्भवमहःसन्दोहसन्तर्पिताः सन्त्युच्चैस्तुहिनोच्चयेऽप्युपचयं पुष्णन्ति पूष्णः कराः ॥ १५॥ परिपीडिता समन्ताजडसमयेनामुना गिरा देवी । श्रीवस्तुपालसचिवं निबिडगुणं पटमिवाश्रयति ।। १६ ।। उद्धृत्य बाहुमहमेष मुहुर्वदामि ब्रूतां स मद्वचसि विप्रतिपद्यते यः। यद्यस्ति कश्चिदपरः परमार्थवेदी श्रीवस्तुपालसचिवेन समः क्षमायाम् ॥ १७ ॥ श्रीवस्तुपाल! चिरकालमयं जयन्तसिंहः सुतस्तव भवत्वधिकाधिकश्रीः । यस्तावकीनधनवृष्टिहृतावशिष्टं शिष्टेषु दौस्थ्यदवपावकमुच्छिनत्ति ॥१८॥ यथा यथाऽयं तव वस्तुपाल ! गोत्रं गुणैः सूनुरलङ्करोति । तथा तथा मत्सरिणां नराणामवैमि चित्तेष्वनलं करोति ।। १९ ॥ पुरा पादेन दैत्यारे वनोपरिवर्तिना। अधुना वस्तुपालस्य हस्तेनाधःकृतो बलिः ॥२०॥ मध्यस्थं कथयन्ति केचिदिह ये त्वां साधुवृत्त्या बुधाः श्रीमन्त्रीश्वर ! वस्तुपाल ! न मृषा तेषामपि व्याहृतम् । कर्णोऽभूदुपरि क्षितेबलिरधस्त्वं चात्र मध्ये तयोः स्थातेत्यर्थसमन्वये ननु वयं मध्यस्थमाचक्ष्महे ॥२१॥ कम्पाकुलमवलोक्य प्रतिवीराणां रणाङ्गणे हृदयम् । अनुकम्पाकुलमयमपि सचिवश्चक्रे निजं चेतः ॥२२॥ नरेन्द्रश्रीमुद्रा सपदि मदिरेवापहरते हताशा चैतन्यं परिचरितमालिन्यमनसाम् । १ दाहेन सहित: सदाहः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230163
Book TitleVastupal na Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherZ_Mahavir_Jain_Vidyalay_Suvarna_Mahotsav_Granth_Part_1_012002.pdf and Mahavir_Jain_Vidyalay_Suvarna_
Publication Year
Total Pages28
LanguageGujarati
ClassificationArticle & History
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy