________________
ऑगस्ट २०११
तथाऽन्त्यस्याऽञ्णिति प्रोक्तो ऽविचिण्णङित्सु जागरेः । अभ्यस्तस्योपधाया नो, अचि पित्सार्वधातुके ॥२॥ व्याख्या : अन्त्यस्य- अवसानवर्त्तिनः इकस्तथेति ह्रस्वस्य दीर्घस्य च गुणो अणिति प्रोक्त इति, ञिति णिति प्रत्यये गुणो न भवति, तत्र वृद्ध्या तस्य बाधितत्वात् ।९
अविचिण्णङित्सु जागरे इति जागृ इत्यस्याऽङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः । इदं बाधकबाधनार्थं न क्ङिती [ १ / २ / ५ ]त्यस्य ञिति णिति परेऽन्त्यवृद्धेश्च बाधनार्थमित्यर्थः । तथा च जागरयति, जागरकः, साधु जागरी, जागरं जागरं, जागरो (घञ्) वर्त्तते इत्यादौ वृद्ध्या न बाधः । कृते च गुणे 'अत उपधाया' [ ७/२/११६] इति वृद्धिः प्राप्नोति सा न भवति । यदि हि स्यादनर्थक एव गुणस्स्याच्चिण्णलोश्च प्रतिषेधवचनमनर्थकम् । विचिण्णल्ङित्सु यथाप्राप्तं कृगृजागृभ्यः क्विनः कित्वाद् गुणाभावो - जागृविः, चिण्- अजागारि, णल्- जजागार, अत्रोभयत्र वृद्धिः ङित् - जागृतः, जागृथ:, ङित्त्वाद् गुणाभावः । वीति केचिदिकारं उच्चारणार्थं वर्णयन्ति, तेन क्वसावपि वकारादौ गुणो न भवति- जजागृवान् । येषां तु नोच्चारणार्थस्तन्मते– जजागर्वानिति रूपम् । अजागरुः, अहं जजागर इत्यत्र गुणस्य प्रतिषेधः प्राप्नोति, नाऽप्रतिषेधात् । अविचिण्णल्ङित्सु इति पर्युदासोऽयम् । ततश्चाऽयमर्थः - विचिण्णल्ङि - व्यतिरिक्ते प्रत्यये गुणो भवति । विनादौ तु न विधिर्न प्रतिषेधः न गुणानुज्ञा । यदि केनापि प्राप्नोति तदा प्राप्नोत्येव । तेन जुसि चेति [ ७/३/८३] गुणोऽजागरुरित्यत्र । लि तु णिद्भावपक्षे 'सार्वधातुकार्धधातुकयोः ' [ ७/३/८४] इति गुणस्तेन जजागरेति सिद्धम् । अथवा जाग्र इति या प्राप्तिरसावानन्तर्याद् विचिण्णल्ङित्सु इति प्रतिषिध्यते । कित्यप्राप्तं प्राप्य: (प्य) प्राप्तं प्रतिषेधयति ।
I
१०१
अभ्यस्तस्येति अभ्यस्तसंज्ञकस्याऽङ्गस्य उपधाया इक इउऋलृनां [अचि] इत्यजादौ पिति सार्वधातुके नो इति गुणाभावः गुणो न भवतीत्यर्थः। नेनिजानि, अनेनिजं, वेविजानि, अवेविजं, परिवेविषाणि, पर्य्यवेविषम् । अभ्यस्तस्येति किं? वेदानि । अचीति किं ? नेनेति । पिग्रहणमुत्तरार्थम् ।
१. अचो ञ्णिति ७/२/११५ ३. नाऽभ्यस्तस्याऽचि पिति सार्वधातु
-
२. जाग्रोऽविचिण्णङित्सु - ७/३/८५
७/३/८७