SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ११० अनुसन्धान-५६ ऽधिकारस्य बाध इति किदधिकारेण डिदधिकारस्य बाधितत्वात् । उभयानुवृत्तौ हि वचिस्वपियजादीनां जागर्तेश्च संप्रसारणगुणयोर्विकल्पः प्रसज्येत । ननु कृताकृतप्रसङ्गत्वेन नित्यत्वाद् वुगेव गुणवृद्धी बाधिष्यते तत् किं कित्त्वेन प्रतिषेधार्थेन ? न च कृतयोर्गुणवृद्ध्योरेजन्तस्य प्राप्नोत्यकृतयोस्तूदन्तस्येति शब्दान्तरप्राप्त्या वुकोऽनित्यत्वम् । एकदेश विकृतस्याऽनन्यत्वेन शब्दान्तरप्राप्त्यभावात् । सत्यं, तदेतद् वार्त्तिककारस्य मतम् । यदाह- 'इन्धेः छन्दोविषयत्वाद् भुवो वुको नित्यत्वात्, ताभ्यां लिटः किद्वचनानर्थक्यमिति । सूत्रकारस्तु मन्यते वुगनित्य इति । तद्विधौ हि 'ओः सुपि' [६/४/८३] इत्यतः ओरित्यनुवर्त्तते । उवर्णान्तस्य भुवो वुग् यथा स्यात्, बोभावेति यङि लुकि मा भूदिति । तत्र हि इन्धिभवतिभ्यां च इति श्तिपा निर्देशेन कित्त्वं व्यावर्त्यते, तेन वृद्धिरेव भवति । एवं च यथा तत्राऽनुवर्णान्तत्वाद् वुग् न भवति, एवं बभूवेत्यत्रापि वृद्धौ कृतायां न प्राप्नोतीत्यनित्यो वुक् परया वृद्ध्या मा बाधीत्यारम्भणीयं कित्त्वम् । एष एव च कित्त्वे श्तिपा निर्देशं लुकि च तदभावं कुर्वतः सूत्रकृतोऽभिप्रायः । अत्रेष्टिः (त्र) श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् (वा०) । ग्रेथतुः, ग्रेथुः, देभतुः, देभुः, परिषस्वजे, परिषस्वजाते । क्त्वा मृडादिगणात् सेटक इति । मृड् मृद् गुध् कुष् क्लिश् वद् वस् एते मृडादयः । एभ्यः परः सेट्क्त्वाप्रत्ययः किद्भवति ।। 'न क्त्वा सेडि'ति [१/२/१८] प्रतिषेधं वक्ष्यति, तस्याऽयं पुरस्तादपकर्षः, अपवाद इति यावत् । गुधकुषक्लिशानां तु 'रलो व्युपधा'दिति विकल्पे प्राप्ते नित्यार्थं वचनम् । मृडित्वा, मृदित्वा, गुधित्वा, कुषित्वा, क्लिशित्वा ।। रुदादिभ्यः सना युतः इति । रुदादिभ्य इति रुदादिगणात्, रुद् विद् मुष ग्रहि स्वपि प्रच्छ इत्येतेभ्यः सना युतः क्त्वा, सन्प्रत्ययेन सहितः क्त्वाप्रत्ययः किद्भवति ।२ रुदविदमुषाणां 'रलो व्युपधा'दिति विकल्पे प्राप्ते नित्यार्थं वचनं ग्रहे विध्यर्थमेव, स्वपिपृच्छयोः सनर्थं ग्रहणं, किदेव हि क्त्वा । रुदित्वा, रुरुदिषते, विदित्वा, विविदिषते, मुषित्वा, मुमुषिषति, गृहीत्वा, जिघृक्षति, सुप्त्वा, सुषुप्सति, पृष्ट्वा, पिपृच्छिषति । ग्रहादीनां कित्त्वात् संप्रसारणं भवति । 'किरश्च पञ्चभ्यः' [७/२/७५] इति पृच्छेरिडागमः । १. मृडमृदगुधकुषक्लिशवदवसः क्त्वा - १/२/७ २. रुदविदमुषग्रहिस्वपिप्रच्छ: संश्च - १/२/८ ३. ग्रहिज्यावयिव्यधि० - ६/१/१६
SR No.229616
Book TitleGunkittva Shodshika
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages35
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size344 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy