________________
अनुसन्धान-५९
सर्वज्ञाभावमाविर्भावयन्ति तत्र न हि सर्व(देश)कालव्यापकं तेषामपि ज्ञानमस्ति, येन सर्वत्र देशे काले च सर्वज्ञाभावस्तैनिश्चीयते। अथाऽस्ति सर्वदेशकालव्यापकं ज्ञानं, तहि ते एव सर्वज्ञाः । सिद्धं नः समीहितम् । न चैतदस्ति, तस्मात् क्वापि देशे भूते भविष्यति च काले सर्वज्ञस्य सद्भावात् तद्गतलोकानां समक्ष एव भविष्यति ।
___ तथाऽनुमानानुमेयोऽपि भगवान् सर्ववेदी । तच्चेदं - ज्ञानस्य तारतम्यं, क्वचिद् विश्रान्तं, तरतम-शब्दवाच्यत्वात् । यद् यत् तरतमशब्दवाच्यं तत् तत् क्वचिद् विश्रान्तम् । यथा महत्परिमाणतारतम्यमाकाशे, लघुपरिमाणतारतम्यं परमाणौ । विश्रान्तं च क्वचिद् ज्ञानतारतम्यम् । यत्र विश्रान्तं स सर्वज्ञः । उक्तं च -
"मा वहउ को वि गव्वं, अत्थि जए पंडिओ अहं चेव ।
आ सव्वन्नुमईओ, तरतमजोगेण मइविहवा ॥" पक्ष-हेतु-दृष्टान्तदोषवजितं चैतदनुमानं सर्वज्ञसद्भावं साधयत्येव ।
यदप्युक्तं 'आगमादपि न सर्वज्ञः परिज्ञायते', तदपि न सुमनोमनो रञ्जयति । यतो यस्मिन्नागमे अनागतकालं यत्र यत्र काले ये ये भावा यथारूपेण भाविनः कथिताः सन्ति, तत्र तत्र काले [ते] ते भावाः तथारूपेण भवन्तः सन्तः तदागमकर्तुः सर्वज्ञतामावेदयन्त्येव ।
उपमानं तु सर्वज्ञसद्भावावेदकं न सम्भवति, तस्य सर्वोत्तमत्वेन तदुपमानभूतस्य त(क)स्याऽप्यभावात् ।
अर्थापत्तिः पुनः सर्वज्ञसद्भावं प्रादुःकरोत्येव । अविसंवादिवचनो ह्यागमः सर्ववेदिनं प्रणेतारमन्तरेण न जाघटीति । ततोऽर्थादेवं निर्णीयते तत्प्रणेता सर्वज्ञोऽवश्यमेवाऽभूदेवेति ।
ततो न भवत्परिकल्पितैर्विकल्पैर्गजविकल्पकल्पैः सर्वज्ञोऽपह्नोतुं पार्यते । तथाहि - कश्चिद् भौतकुतर्कमुखरबठरखण्डिककुटुम्बकाविकलकोलाहलाकर्णनमात्रवातूलः कथमपि नृपतिद्वारमुपागतः प्रथमजलधरनीरन्ध्रधाराधोरणीधौतसमुद्वराञ्जन(ना)गिरिशृङ्गसोदरं सपदिविदलितकुन्दकलिकावदातदन्तमुशलद्वितयम् अनुकलविगलदविरलमदजलाकुलकपोलस्थलम् अमन्दमन्दरोन्मध्यमान