SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ जून - २०१२ ध्यययनाध्यापनप्रग्रहप्रसङ्गात् विविधानि कर्माणि कुर्वन्ति । न च ते भवतां ब्राह्मणाः सम्मताः । तस्मात् कर्मणाऽपि ब्राह्मणो न भवति । वेदेनाऽपि ब्राह्मणो न भवति । कस्मात् ? रावणो नाम राक्षसोऽभूत् । तेनाऽधीताः चत्वारो वेदाः - ऋग्यजुःसामअथर्वणाश्चेति । राक्षसानामपि गृहे वेदव्यवहारः प्रवर्तते एव । न च ते ब्राह्मणाः स्युः । अतो मन्यामहे वेदेनाऽपि ब्राह्मणो न भवति । किं तर्हि ब्राह्मणत्वं भवति ? उच्यते ब्राह्मणत्वं न शास्त्रेण, न संस्कारैर्न जातिभिः । न कुलेन न वेदैश्च, न तथा कर्मणा भवेत् । ततः कुन्देन्दुधवलं ब्राह्मण्यं सर्वपापस्याऽकारणमिति । उक्तं - व्रततपोनियमोपवासदानदमशमसंयमाचाराच्च । तथा चोक्तं वेदे - “निर्ममो निरहङ्कारो, निःसङ्गो निःपरिग्रहः । रागद्वेषविनिर्मुक्त-स्तं देवा ब्राह्मणं विदुः ॥" सर्वशास्त्रेऽप्युक्तं - "सत्यं ब्रह्म तपो ब्रह्म, ब्रह्म वेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्म, एतद् ब्राह्मणलक्षणम् ॥ सत्यं नाऽस्ति तपो नाऽस्ति, नाऽस्ति चेन्द्रियनिग्रहः । सर्वभूतदया नाऽस्ति, एतत् चाण्डाललक्षणम् ॥ देवमानवनारीणां, तिर्यग्योनिगतेष्वपि । मैथुनं नाऽधिगच्छन्ति, ते विप्राः समुदाहृताः ॥” इति । शक्रेणाऽप्युक्तं - "न जातिर्दृश्यते तावद्, गुणाः कल्याणकारकाः । चण्डालोऽपि व्रतस्थश्चेद्, तं देवा ब्राह्मणं विदुः ॥" तस्माद् न जातिर्न जीवो न शरीरं न ज्ञानं नाऽऽचारो न कर्म न वेदो ब्राह्मण इति । अन्यच्च भवतां चोक्तं - इह शूद्राणां प्रव्रज्या न विधीयते, ब्राह्मण
SR No.229589
Book TitleKetlak Darshanik Prakarano
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherZZ_Anusandhan
Publication Year
Total Pages37
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size163 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy