________________
जून २०१२
५५
‘“विपक्षपक्षलतालवित्रमत्राऽनुमानमुदीरयामः । त्रिभुवनोदरविवरवर्ति सौभाग्यभाग्यादिवस्तुसमस्तमप्यविकलकारणजन्यं, कार्यत्वात् । यद्यत् कार्यं तत्तद– विकलकारणजन्यं, यथा तथाविधमृत्पिण्डतन्तुसन्तानजन्यं घटपटप्रभृतिकम् । यदेवं तदेवम् । न चाऽयमसिद्धो हेतु:, पक्षे तद्भावात् । तदभावे भाग्यसौभाग्यादेः सदैव सद्भावोऽसद्भावो वा स्यात्, न तु कादाचित्कः । नाऽपि विरुद्धः, कारणं विना यत्नसहस्त्रैरपि कार्यस्याऽनुत्पादात् । अन्यथा खरविषाणादिभ्योऽपि सर्वथा कार्यसिद्धिः स्यात् । नाऽप्यनैकान्तिकः, विपक्षे तद्गन्धमात्रस्याऽप्यनुपलब्धेः इत्येतदुक्तप्रायम् । अत: सर्वदोषरहितादनुमानात् तत्सिद्धौ नाऽस्ति प्रतिवादिवादलेशस्याऽप्यवकाशः । तदेवं परोक्षावान्तरभेदेनाऽनुमानेन योगिप्रत्यक्षेण च तस्मिन् साधिते प्रत्यक्षपरोक्षाभ्यां प्रमाणाभ्यां तत्सिद्धिः संसिद्धा ।
“किञ्च शाब्दप्रमाणमपि तत्साधने साधीय एव । यतो न वयं यादृशतादृशेन प्रतिप(पा)दितवचनस्य प्रामाण्यमभ्युपगच्छामः । किन्त्वविसंवादिवचनस्य पुरुषविशेषस्य । अविसंवादिवचनत्वं च सर्वज्ञत्वाद् वीतरागत्वाच्च । सर्वज्ञत्वं चोक्तयुक्त्या साधि[तमे]व । तत्साहचर्याद् वीतरागत्वमपि स्वतः सिद्धमवसेयम् । तदेवं शाब्दप्रमाणेनाऽपि तत्सिद्धिरनिवार्या ।
“तथा उपमानप्रमाणस्याऽनभ्युपगमादेव न तद्दूषणमस्मत्पक्ष[क्ष]तिमावहति। अर्थापत्तेश्चाऽनुमानान्तर्भूतत्वात् किं पृथक्प्रयासेन तत्साधने बाधने वा? तदेव(वं) प्रमाणसिद्धे धर्मे धर्मिणि सर्वेषामपि मतिमतामविसंवाद एवे"त्युदित्वाऽवस्थिते सागरेन्दौ वृद्धोऽभ्यधात् "आचार्याः! तर्के भवतां भव्योऽभ्यासोऽस्ती’त्युक्त्वा मौनमाश्रयत् । मा जानातु मां सागरोऽप्यहो! अस्य जरतो मद्गुरोरिव प्रमाणग्रन्थेष्वभ्यस्तिरिति विचिन्त्य स्वासनमश्रि (श्र ) यत् ॥ धर्मस्थापनस्थलः(लं) सम (मा)तः (तम्) ॥