________________
जून - २०१२
अथेत्थमभिधीयते । किमिदं सर्वविद्विज्ञानं निराकारमाहोस्वित् साकारम् ? यदि निराकारं, न तेनाऽर्थपरिच्छेदः । साकारं चेत् तदपि किं स्वाकारमुताऽर्थाकारमिति विकल्पौ रागद्वेषाविवाऽभिप्रेतार्थव्याघातकरावनुधावतः । यदि स्वाकारं, पूर्वो दोषः । अर्थाकारं चेत्, तयर्थानामानन्त्याद् भिन्नजातीयत्वाच्च तत्तच्छबलरूपप्राप्त्या नैकस्याऽप्यर्थस्य याथात्म्यग्रहणं स्यात् ।
नैतदपि चतुरचेतसि चारु चकास्ति । विज्ञानस्याऽर्थग्रहणपरिणामाभ्युपगमात् । यदि ह्या विज्ञाने स्वाकारं समर्पयन्तीत्यभ्युपगम्यते तदैष दोषोऽनुषज्यते । यदा च विज्ञानमेवाऽर्थग्राहकत्वेन परिणमति, तदा अदो दूषणं कथं स्यात् ? तत्परिणामश्च वस्तुनोऽनेकस्वभावत्वादनेकरूपोऽन्यथाऽर्थपरिच्छेदानुप
पत्तेः ।
तथाऽप्यतीता[ना]गतार्थग्रहणमनुपन्नमसत्त्वात् तेषामिति चेत् ? न, सर्वथासत्त्वानभ्युपगमात् । सतः सर्वथासत्त्वानुपपत्तेरसतश्चोत्पत्तिविरोधात् । खरविषाणादीनामप्युत्पत्तिप्राप्तेरतः तदा तेषां सतामेव वर्तमानत्वात् । वर्तमाना हि भावा तथातथापरिणामेनाऽतीतादिव्यपदेशभाजो भवन्त्यन्यथाऽवर्तमानत्वाद् वर्तमानत्वस्याऽप्यनुपपत्तिरिति भूत-भविष्यत्सकलपदार्थसार्थतत्त्वावबोधकः सुव्यवस्थितः सर्वज्ञ इति ।
इति सर्वज्ञसिद्धिनामप्रकरणम् ॥छः।।
धर्मस्थापनस्थलम् आधारो यस्त्रिलोक्या जलधिजलधरार्केदवो(र्कादयो) यन्नियोज्या, भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदस्ताः । आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वती शर्मलक्ष्मीम् ॥१॥ राज्यं सुसम्पदो भोगाः, कले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं, धर्मस्यैतत्फलं विदुः ॥२॥
ततो सागरचन्द्रः कालिकाचार्यरूपं वृद्धं प्रत्युवाच- "हे जरन्! हितैषिणा मनीषिणा तीर्थङ्करप्रणीतो धर्मः परमदैवतवत् चिन्तनीयः, यत्प्रभावाद